पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ J सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५३ अहं राघव कैकेय्या वरदानेन मोहितः ॥ अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः ॥ प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥ भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ॥ अहं त्वरण्ये वत्स्यामि न मे कार्य त्वयाऽनृतम् ॥ २८ ॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते || पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ २९ ॥ रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः || कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ।। ३० ।। श्रेयँसे वृद्धये तात पुनरागमनाय च ॥ गच्छखारिष्टव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव || विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ ३२ ॥ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ॥ ऐकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ ३३ ॥ मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ॥ तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ ३४ ॥ दुष्करं क्रियते पुत्र सर्वथा राघव वैया || मैत्प्रियार्थ प्रियांस्त्यक्त्वा यँद्यासि विजनं वनम् ||३५|| ॥ २५ ॥ मोहितः वश्चितइत्यर्थः || २६ – २७ ॥ | दपिजन्तोर्भयरहितं ॥ ३१ ॥ सत्यात्मनः सत्यस्वभा- वर्षसहस्राय अनेकवर्षाणीत्यर्थः । मे मह्यं । अनृतं वस्य । “ आत्मादेहेवृतौजीवेस्वभावे " इतिवैजय- अनृतवचनं ||२८|| प्रतिज्ञान्ते प्रतिज्ञावसाने ॥२९॥ |न्ती | धर्माभिमनसः धर्माभिनिविष्टमनसः ॥ ३२ ॥ मिथः रहसि । कैकेय्या चोद्यमानः अद्यैवप्रस्थापये- | अद्य अस्मिन्दिने । इदानीं आसन्नामित्यर्थः । साधुः तिप्रेर्यमाणः ॥ ३० ॥ श्रेयसे पारलौकिकफलाय । सुखं । चरामि वसामि ॥ ३३ ॥ साधयिष्यसि गमि- वृद्धये ऐहिकफलाय । गच्छस्व गच्छ | अरिष्टं शुभं । ष्यसि । काले प्रातःकाले ॥ ३४ ॥ मत्प्रियार्थ ममपर- “अरिष्टे तु शुभाशुभे" इत्यमरः । अकुतोभयं कुतश्चि- | लोकप्रियार्थमित्यर्थः । अन्यथाउत्तरलोकविरोधात् । पिविषादरहितं ॥ २५ ॥ ती० मे मया | त्वं आनृतः ईषदनृतयुक्तोपिन कार्यः । वि० भवान् वर्षसहस्रायुः पृथिव्याः पतिर्भवतु । अतःपरमप्यनेककालंराजाभवेत्यर्थः । स० हेनृपते पृथिव्याः पतिर्भवान्ं वर्षसहस्रायुः बहुसहस्रवर्षपर्यन्तंजीवितवान् । एतेन बहुकालंराज्यकर्तारंत्वांनिगृह्यराज्य करणंनमह्यं रोचतइति भवान्वर्षसहस्रायुः पृथिव्याः पतिर्भववितिव्याख्यानं रामस्य कदाप्यनृतभाषि- त्वाभावादुत्तर श्लोकव्याख्यानवदुपेक्ष्यमित्यपिसूचितम् । शि० हेनृपते वर्षसहस्रायपृथिव्याः वर्षसहस्राणां बहुखण्डानां अयः प्राप्तिर्यस्यांसाचसापृथिवीतिकर्मधारयः । तस्याः । यतोभवानेवपतिः अतःराज्यस्यकाङ्क्षिता आकाङ्क्षामेनास्ति ॥ २८ ॥ शि० प्रतिज्ञान्ते अवध्यवसाने तेपादौपुनर्महीष्यामि । पुनरित्यनेन प्रतिज्ञामध्यएवतवपादावेकवारंग्रहीष्यामीतिसूचितम् । नचावध्यन्ते राज्ञःप्रकटस्थित्यभावेनतत्पादग्रहणासंभवाद्रामस्यमृषासंसर्गित्वापत्तिरितिवाच्यम् । मातापित्रोरभेदाध्यवसायान्मातृपादग्रहणस्यसं- भवात्तस्यचपितृपादग्रहणानतिरेकान्मृषासंसर्गित्वस्यासंभवात् । किंच पदयोश्चरणयोरिमौ पादौ पादुकापदार्थों महीष्यामि नमस्क. - रिष्यामीत्यर्थः । पादमितिपाठेतु पदमेवपादं त्वद्दत्तराजोचितस्थानंत्राणंचेत्यर्थः । महीष्यामि स्वीकरिष्यामि । तथाचमेदिनी "पदं- शब्देचवाक्येच – स्थानत्राणयोः” इति । स० प्रतिज्ञान्ते चतुर्दशवर्षानन्तरं । स्वर्गादागत्यस्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायः । यथोक्तमत्रैवोत्तरत्रयुद्धकाण्डे " महादेववचः श्रुत्वाराघवःसहलक्ष्मणः । विमानशिखरस्थस्यप्रणाममकरोत्पितुः” इति । विहत्येत्यनेन राक्षसहननादिकंमम विहारइतिसूचयति ॥ २९ ॥ शिo सत्यपाशेन सत्यस्ययः पः पालनंतस्ययःअशोव्याप्तिःपरिपूर्णता तेनसं- युतः । चोद्यमानः वनायाज्ञापयेतिरामेणप्रार्थ्यमानः । कैकेय्यासहराजातंराममब्रवीत् | मिथएवार्थकम् ॥ ३० ॥ शि० तात हेप्रिय । हेव ममआत्मप्रभृते । श्रेयसे अवलोकनकर्तॄणांकल्याणाय । वृद्धये केषांचिद्राज्यादिप्राप्तये । अकुतोभयं सर्वहेतुकभ- याभावविशिष्टं । अरिष्टं अतिशयेनशत्रूणांनिवर्तकं | पन्थानं गच्छ| स० श्रेयसे सतां । वृद्धये वैरिच्छेदाय । स्वारिष्टं स्वानामरिष्टं क्षेमंयथाभवतितथा गच्छ ॥३१॥ शि० एकाहं एकदिनं । इदानीं रजनीं एकरात्रं | दर्शनेन तवावलोकनेनापि । सर्वथा सर्वप्रकारेण । साधु अतिशोभनं । चरामि प्राप्नोमि ॥ ३३ ॥ शि० मत्प्रियार्थमित्युक्त्याप्रतिभासितंवियोगप्रियत्वंस्वस्मिन्निवारयन्नाह -नचेति । [ पा० ] १ क. ख. ङ–ट. अयोध्यायां. २ ख. ट. कोविदं. ३ च. ञ. ठ. सहस्रायुः ४ ङ. छ. ज. झ. ट. राज्यस्य काङ्क्षिता. ग. च. कार्यस्त्वया ५ ख. ग. ङ— झ. ट. संयुतः ६ ग. च. ज. श्रेयसो. ७ ख. च. मव्यग्रं. ८ ङ. च. छ. झ. ट. संनिवर्तयितुं. ९ ङ. च. छ. झ. ट. एकाहं. १० गट. काल्ये, ११ ङ, छ, झ. प्रिय. १२ ड. छ. झ. त्वयाहि मत्प्रियार्थ तुवन मेवमुपाश्रितं. १३ घ. यातोसि. वा. रा. ५२