पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४९ अङ्गरागोचितां सीतां रक्तचन्दनंसेविनीम् || वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ॥ ९ ॥ अद्य नूनं दशरथः सत्वमाविश्य भाषते ॥ न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ॥ १० ॥ निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् || किंपुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ॥ राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ॥ औदकानीव सत्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥ पीडया पीडितं सर्वे जगदस्य जगत्पतेः || मूलस्येवोपघातेन वृक्ष पुष्पफलोपः ॥ १४ ॥ मूलं ह्येष मनुष्याणां धर्मसारो महायुतिः || पुष्पं फलं च पत्रं च शाखांश्चासेतरे जनाः ॥ १५ ॥ ते लक्ष्मण इव क्षिप्रं संपत्यः सहबान्धवाः ॥ गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥ ••उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥ समुद्धृतनिधानानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हँतसाराणि सर्वशः ॥ १८ ॥ रजसाऽभ्यवकीर्णानि परित्यक्तानि दैवतैः ॥ भूषकैः परिधावद्भिरुद्भिरावृतानि च ॥ १९ ॥ अपेतोदकधूमानि हीनसंमार्जनानि च ॥ प्रनष्टवलिकर्मेज्यामत्रहोमजपानि च ॥ २० ॥

79 ॥७–९॥ सत्वं जन्तुं । “सत्वमस्त्रीतुजन्तुषु ” इत्य - | ॥ १४ ॥ मनुष्याणां प्राणिनामुपलक्षणमेतत् । धर्म- मरः । पिशाचमितियावत् | आविश्य प्राप्य || १० || | एवसारोयस्य धर्मसार: ॥ १५ ॥ तेवयं सपत्नयः वृत्तेनकेवलं चरित्रमात्रेण " वृत्तंपद्येचरित्रे" इत्य- सपत्नीका: । समासान्तविधेऱनित्यत्वेन “ नघृतश्च मरः । वृत्तेनकेवलमित्युक्तिर्दानमाना दौविद्यमानेपि इतिकबभावः । येनमार्गेणगच्छतितेनेतिशेषः ॥१६॥ चरित्रप्राधान्यात् ॥ ११ ॥ आनृशंस्यं अहिंसकत्वं । उद्यानानि राजार्होद्यानसदृशक्रीडावनानि । एकदु:- अनुक्रोशोदया "कृपादयानुकंपास्यादनुक्रोश: " इत्य- खसुखाः समानसुखदुःखाः ॥ १७ ॥ समुद्धृतनिधा- मरः । दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः । नानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भ " शमश्चित्तप्रशान्तिः स्याहम इन्द्रियनिग्रहः " इतिनिर्व- नाङ्गणानि । “ अङ्गणंचत्वराजिरे " इत्यमरः । उपात्त- चनात् ॥ १२ ॥ तस्मात् षाङ्गुण्ययुक्तत्वात् । तस्य | धनधान्यानि | अत्रघनशब्देनगवादिकंनिक्षिप्तभूषणनि- रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवना- नि । शैषिकोण् ॥ १३ ॥ अस्यजगत्पतेः रामस्यपी- कादिकंचोच्यते । साराणि शय्यासनादीनि ॥ १८ ॥ डया विवासनरूपया । पुष्पफलैरुपगमोयस्यसपुष्प- दैवतैः गृहदैवतैः । उद्विलैः उद्भिन्नबिलैः ॥ १९ ॥ फलोपगोवृक्षइव " अन्येष्वपिदृश्यते " इतिडप्रत्ययः उदकं उदकसेचनं । हीनसंमार्जनानि संमार्जनही नानि 66 सूर्यादिसलैः ॥ ८ ॥ शि० वर्षादित्रयं विवर्णतां वर्णान्तराक्रान्ततां । नेष्यति प्रापयिष्यति । स० उचितोङ्गरागोदेहरक्तिमायस्या- स्सातंथा । आहितादित्वात्परनिपातः । नेष्यति प्रापयति ॥ ९ ॥ शि० सत्वं महात्मनांधर्म सत्यप्रतिज्ञत्वमित्यर्थः । आविश्य आश्रित्य | भाषते वनगमनंवक्ति । अन्यथा विवासयितुंनार्हति । हिरन्यथार्थे । एतेन सत्वंपिशाचमित्यर्थवर्णयन्तोभट्टादयश्चि- न्त्याः । तदर्थेसंकेताभावादसंभवाच । स० सत्वं साधुगुणं | आविश्य आलंब्य । भाषते नवनंगच्छेतिरामंप्रतीतिशेषः । कुतइत्य- तआहे- नहीति । यद्वा सत्वं कैकेय्यादिरूपपिशाचं । आविश्यालंब्य भाषते वनंगच्छेति नप्रकृतितः । कुतइत्यत आह-नही- ति । “ सत्वंगुणेपिशाचादौ " इतिविश्वः ॥ १० ॥ ती० श्रुतं अनुष्ठानपर्यवसायिशास्त्राध्ययनं | शि० श्रुतं विज्ञापनाश्रवणं । दमः यथाऽपराधंदण्डः । स० अनुक्रोशः अनिमित्तकपरदुःखप्रहाणेच्छा । एतेषड्गुणाः । एतेगुणाः तथाऐश्वर्यादिषडणाश्चेतिवा ॥ १२ ॥ शि० पुष्पफलोपगः पुष्पफलानिप्राप्तः ॥ १४ ॥ [पा० ] १ ख. सेवितां. २ क. ख. घ. छ - ठ. नेष्यत्याशु. ३ ग. घ. विवर्णिताम्. ४ क. ख. ग. छ. झ~ ठ. मर्हति- ५ छ. झ. ट. द्विनिवासनम् ६ क. दमः शीलंश्रुतंशमः ७ क–घ. ज. पुरुषोत्तमम् ८ घ. ज. महीपतेः ९ क. च. वृक्षाः पुष्पफलोपगाः. घ. वृक्षः पुष्पफलागमः १० घ. स्तस्येतरे. क. ख. स्त्वस्येतरे. ११ ख. तं. १२ठ सपत्नीका: सबान्धवाः १३ कं. समदुःख. १४ ख समुद्धत १५ छ. दत्तसाराणि क हृतभाराणि, १६ क. व्यवकीर्णानि १७ क. ख. घ. मूषिकैः,