पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ॥ सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥ अन्यैश्च रत्तैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ॥ सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ ६ ॥ हारं च हेमसूत्रं च भार्यायै सौम्य हारय || रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ ७ ॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च ॥ प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ ८॥ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् || तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ९ ॥ नाग: शत्रुञ्जयो नाम मातुलो यं ददौ मम ॥ तं ते गंजसहस्रेण ददामि द्विजपुङ्गव ॥ १० ॥ इत्युक्तः सं हि रामेण सुयज्ञः प्रतिगृह्य तत् ॥ रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११ ॥ अथ भ्रातरमेव्यग्रं प्रियं रामः प्रियंवेदः ॥ सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदेशेश्वरम् ॥ १२ ॥ आगस्त्य कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ॥ अर्चयाय सौमित्रे रलैः सस्यमिवांबुभिः ॥ १३ ॥ तर्पयस्व महाबाहो गोर्सेहस्रैश्च मानद || सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ १४ ॥ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ॥ आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १५ ॥ तस्य यानं च दासीच सौमित्रे संप्रदापय || कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १६ ॥ सूतश्चित्ररथचार्य: सचिवः सुचिरोषितः ॥ तोषयैनं महाथ रत्नैर्वस्त्रैर्धनैस्तथा ॥ पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ १७ ॥ १४४ 66 क्तेः ॥ ३ ॥ अर्चितं हुतं ॥ ४ ॥ जातरूपमयैः | तुभ्यंदातुमित्यर्थः ॥ ९ ॥ मातुलोददावितिदशरथीय- स्वर्णमयैः । अङ्गदैः कूर्परोपरिधार्यैर्बाहुभूषणैः । शत्रुञ्जयव्यावृत्तिः ॥ १० ॥ प्रतिगृह्येत्यनेनन्यासभू- सहेमसूत्रैर्मणिभिः हेमसूत्रप्रोतैर्वैडूर्यपद्मरागमुक्तादि- तत्वव्यावर्त्यते ॥ ११ ॥ त्रिद॒शेश्वरं इन्द्रं ॥ १२ ॥ “ मणिभिः । “रत्नमणिर्द्वयोरश्मजातौमुक्तादिकेपिच ” आगस्त्यं अगस्त्यपुत्रं | कौशिकं विश्वामित्रपुत्रं । रत्नैः इत्यमरः । केयूरैः भुजशिरोव्यापिफणाकारशिखरयुक्त श्रेष्ठवस्तुभिः ॥ १३ ॥ रत्नैरर्चनविवृणोति – तर्पय बाहुभूषणैः । अथवा अङ्गदकेयूरयोःस्थूलत्वसूक्ष्मत्वा- स्वेति ॥ १४ ॥ कौसल्यामित्यादिश्लोकद्वयमेकान्व- भ्यांभेदः । वलयैः कटकैः । “ कटकंवलयोस्त्रियां ” यम् । तैत्तिरीयाणां तित्तिरिसंबन्धिशाखाध्येतॄणां । इत्यमरः । रत्नैः भूषणप्रकरणाद्भुषणश्रेष्टरित्यर्थः । आचार्य : अध्यापयिता । अभिरूपः बुधः । प्राप्त- “ रत्नंस्वजातिश्रेष्ठेपि " इत्यमरः ॥ ५–६ ॥ हेम- रूपसुरूपाभिरूपाबुधमनोज्ञयोः” इतिविश्वः । कौ- सूत्रं हेममयंकण्ठसूत्रं । रशनांचते भार्यायैसीतादातु- शेयानि कृमिकोशोत्थानि । “कौशेयंकृमिकोशोत्थं " मिच्छति तत्सर्वैहारय दापयेत्यर्थः ॥ ७ ॥ भार्यायै |इत्यमरः । यावत् यावत्पर्यन्तं । तुष्यति । तावत्संप्र भार्याधरणार्थी | तुभ्यं प्रतिप्रीत्रे । प्रयच्छति । ग- दापयेतिसंबन्धः ॥ १५ - १६ ॥ सूतइत्यादिसार्ध- च्छतीत्यत्रनुमभावआर्षः ॥ ८ ॥ त्वयि प्रतिष्ठापयितुं | लोकएकान्वयः । सूतः सुमतुल्य : कञ्चिञ्चित्ररथना- धोभागस्थं ॥४॥ स० अङ्गगतिंइतस्ततश्चलनमितियावत् । ददतिकर्णयोरित्यङ्गदा नीतिकुण्डल विशेषणम् ॥५॥ स० यतः वनंग- च्छति ई रमात्मिकासीता अतःप्रयच्छतीतिवा ||८|| वि० निष्कसहस्रेण निष्कसहस्रदक्षिणया ॥ १० ॥ स० रामलक्ष्मणसीता- नामित्यत्रलक्ष्मणव्यवधानेनमहर्ष्याशिषा विलंबफलकवंयोतयति ॥ ११ ॥ ति० ब्रह्मात्रिदशेश्वरमिव । नियोक्तृनियोज्ययोः परापरप्रभुलेदृष्टान्तः ॥ १२ ॥ ति० कौशिकोविश्वामित्रः स० अंबुदइतिशेषः ॥ १३ ॥ स० यावदित्यव्ययं । यावता ॥ १६ ॥ शि० यदिचचित्रोरथोयस्यसइतियौगिकार्थमात्रविवक्षा तदा सूतशब्देनसुमन्त्र एवग्राह्यः । पशुकाभिः प्रशस्ताः पशवः पशुकास्ताभिः यज्ञयोग्याभिरित्यर्थः । सर्वाभिः अजादिव्यक्तिभिः ॥ १७ ॥ [ पा० ] १ च. झ झ ञ ट चाथसा. २ छ. झ ञ. सखी ३ च. छ. झ ञ ट अङ्गदानिच ४ छ. झ. सखी. ५ क. चट. निष्क. ६ घ. च. सत्तम. ७ च. छ. झ ञ ट सतु. क. घ. सह. ८ क. घ. च - ट. शिवाः ९ ख. मग्रस्थं. १० झ. प्रियरामः ११ च. छ. ञ ट प्रियंवदम् १२ क. त्रिदशेश्वरः १३ छ ज झ ञ अगस्त्यं. १४ गोसह स्रेणराघव, घ, ज, गोभिर्वस्त्रैश्च १५ क. ख. च - ट. सुवर्णरजतैश्चैव १६ क, रथाचार्यः,