सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सर्वथा सदृशं सीते मम स्वस्य कुलस्य च || व्यवसायमंतिक्रान्ता कान्ते त्वमतिशोभनम् ॥ ४१ ॥ आरभव शुभश्रोणि वनवासक्षमाः क्रियाः || नेदानीं त्वदृते सीते स्वर्गोपि मम रोचते ॥ ४२ ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्र भोजनम् || देहि चाशंसमानेभ्य: संत्वरस्व च मा चिरम् ॥४३॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च ॥ रमणीयाश्च ये केचि क्रीडार्थाचाप्युपस्कराः ॥ ४४ ॥ शयनीयानि यानानि मम चान्यानि यानि च ॥ देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ ४५ ॥ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ॥ 'क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ ४६ ॥ तैंतः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् ॥ धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशस्सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ लक्ष्मनश्रीरामंप्रतिवनवासार्थस्वस्थापिसहनयनप्रार्थना ॥ १ ॥ श्रीरामेणलक्ष्मणप्रति कौसल्यादिपालनविधानपूर्वकंस्खा - नुगमननिषेधः ॥ २ ॥ पुनर्लक्ष्मणेनरामंप्रतिकौसल्यासुमित्रयोः कैमुत्येनात्मभरणसामर्थ्यप्रतिपादने नवनेफलाहरणादिनात- त्सेवननिवेदनम् ॥ ३ ॥ लक्ष्मणवचनश्रवणतुष्टेनरामेणतस्य स्वानुगमनाङ्गीकारेणतंप्रत्यायुधाहरणचोदनपूर्व कंधनादिवितर- णेच्छयासुयज्ञानयनचोदना ॥ ४ ॥ एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ॥ बाष्पपर्याकुलमुखः शोकं सोदुमशँक्रुवन् ॥ १ ॥ स भ्रातुश्चरणौ गाढं " निपीड्य रघुनन्दनः || सीतामुवचातियशा राघवं च महाव्रतम् ॥ २ ॥ नींज्ञातासीतिभावः ||३९|| सृष्टा दैवेनेतिशेषः ||४०|| | क्ष्य आलोच्य | धर्मभृतां धर्मभृद्भ्यः । मनस्विनी व्यवसायं भर्त्रनुसरणाध्यवसायं । अतिक्रान्ता प्रक- | निश्चितमनस्का ||४७|| इति श्रीगोविन्दराजविरचिते र्षेणप्राप्ता । “प्रकर्षेलङ्घनेप्यति" इत्यमरः ॥ ४१ ॥ श्रीमद्रामायणभूषणेपीतांबराख्यानेअयोध्याकाण्डव्या- वनवासक्षमाः वनवासहिताः । “क्षमंशक्तेहितेत्रिषु" ख्यानेत्रिंशः सर्ग |॥ ३० ॥ इत्यमरः । क्रिया: दानादिक्रियाः ॥ ४२ ॥ आशंस- मानेभ्यः अर्थयमानेभ्यः ॥ ४३ || क्रीडार्थाश्चाप्युप- एवंरामेणसीतागमनेऽङ्गीकृते लक्ष्मणस्यानुगमनप्रा- स्कराः । जातरूपमयकृत्रिमपुत्रिकालीलापाकभाजना- र्थनमुपक्षिपति – एवमित्यादिना । श्लोकद्वयमेकंवाक्यं । दिविचित्रोपकरणानि ॥ ४४ ॥ ब्राह्मणानामनन्त एवंसंवादं पूर्वोक्तंसीतारामयोः संवादं । पूर्वमागतः रंस्वभृत्यवर्गस्यदेहीतिसंबन्धः ॥ ४५ ॥ अनुकूलं संम- कौसल्यागृहाद्रामेणसहपूर्वमेवागतः । शोकं अर्धशरीर- तं ॥ ४६ ॥ प्रतिपूर्णमानसा निश्चिन्तेत्यर्थः । अवे- भूतायाः सीतायाअपिवनानुगमनं कृच्छ्रादप्यङ्गीकृतं म दिष्टा मयाअनुज्ञाता । अतोमामनुगच्छस्व | सहधर्मचरीभवेत्यनेन वनवाससाध्यस्य स्वधर्मस्यरक्षोवधजस्यत्वयाविनाऽसंभवइतिसू- चितम् । स० मदिरेक्षणा चञ्चलेक्षणा । “मदिरामद्यभेदेस्याञ्चञ्चलेत्रिषुचस्मृता" इतिचन्द्रालोकव्याख्योदाहृताभिधानात् ॥४०॥ ति० प्रीत्यतिशयात्संबोधनद्वयम् । स० व्यवसायं निश्चयं । अनुक्रान्ता प्राप्तेतियत् तदतिशोभनम् ॥ ४१ ॥ ति० रत्नानि उत्तमवस्तूनि ॥ ४३ ॥ शि० ब्राह्मणानां ब्राह्मणसंप्रदानकदानानां | अनन्तरम् ॥ ४५ ॥ इतित्रिंशस्सर्गः ॥ ३० ॥ शि० अशक्नुवन्सन् आसेतिशेषः ॥ १ ॥ ति० अंतियशां उत्कृष्टकीर्तिमतसीतां । स० अतियशां अतिशयितज्ञानसुखरूपि- [ पा० ] १ क. च. छ. झ — ठ. मनुकान्ता. ख. मनुप्राप्ता २ ज. वमनु. ख. घ. त्वमभि. ३ ख. श्रोणि क. च. ञ. गुरुश्रोणि ४ ख. त्क्रियार्थाश्चा. ५ क. च. चान्यानि ६ घ. च. ञ. तानि. ७ क. बन्धुवर्गस्य. घ. बन्धुवर्गेभ्यो. ख. ट. भृत्यवर्गेभ्यो. ८ ख. अनुकूलहि ९ ख. क्षिप्रप्रमुदिता. १० छ. झ. ट. मेवप्रचक्रमे. * अयंश्लोकः तिलकादिटीकाङ्कितको- शेषुनदृश्यते. ११. ख. घ. परिपूर्ण १२ ख झ. ट. ससंवादं. ज. सुसंवाद. १३ क. अशक्नुवान्. १४ ज. गन्तुं. १५८. निष्पीड्य. १६ छ. झ ञ चातियशां.