पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J १३२ `श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् || पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ ८ ॥ लैक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा | वनवाँसकृतोत्साहा नित्यमेव महाबल ॥ ९ ॥ आदेशो वनवासस्य प्राप्तव्यस्स मया किल || सा त्वया सह तंत्राहं यास्यामि प्रिय नान्यथा ॥ १० ॥ कृतादेशा भविष्यामि गमिष्यामि सह त्वया ॥ कालवायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ ११ ॥ वनवासे हि जानामि दुःखानि बहुधा किल ॥ प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ १२ ॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया || मिक्षिण्या : साधुवृत्ताया मम मातुरिहाग्रतः ॥ १३ ॥ प्रसादितश्च वै पूर्व 'त्वं वै बहुविधं प्रभो ॥ गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥ कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव ॥ वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥ शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा || भर्तारमनुगच्छन्ती भर्ता हि मँम दैवतम् ॥ १६ ॥ प्रेत्यभावेऽपि कल्याण: संगमो मे सँह त्वया ॥ १७ ॥ [पिता रक्षति कौमारे भर्ता रक्षति यौवने || पुत्रा रक्षन्ति वार्धक्ये न स्त्री स्वातत्र्यमर्हति] ॥ १८ ॥ ॥ ७ ॥ अथचापि अपिचेत्यर्थ: । हेमहाप्राज्ञ पुरापि- कन्ययेत्यादिश्लोकद्वयमेकान्वयम् । भिक्षिण्याः ताप- तृगृहेवसन्त्यामया ब्राह्मणानां ब्राह्मणेभ्यः । ज्योति - स्या: । ब्रीह्यादित्वादिनिः । वनवासः श्रुतः भा- र्विद्भ्यः । मे मया। वनेवस्तव्यं किलेतिसत्यंवचनंमया वीतिश्रुतः । इहगृहेत्वयासहवनवासस्यगमनं लीला श्रुतं ।। ८ ।। लक्षणिभ्यः सामुद्रिकलक्षणज्ञेभ्यः । ल - जाह्नवीतीरतपोवनादिगमनं काङ्क्षितं । त्वंच बहुविधं क्षणज्ञानमस्त्येषामितिइनिः ।॥ ९ ॥ सः ब्राह्मणोक्तः । प्रसादतोवै प्रसादितएवेतिसंबन्धः ॥ १३–१४ ॥ वनवासस्यादेशः आदिष्टोवनवीसइत्यर्थः । मयाप्राप्त- कृतक्षणा कृतोत्सवा । “निर्व्यापारस्थितौकालवि- व्यः किल । ललाटलिखितस्यापरित्याज्यत्वादितिभावः । शेषोत्सवयोः क्षण: " इत्यमरः । वनवासस्य वनेवासो सा एवमादिष्टा । अहंत्वयासहयास्यामि । नान्यथा यस्यइतिवनवासः तस्य । शूरस्यतवचर्या परिचर्या । मम क्रेवलंस्वेच्छयानयास्यामीत्यर्थः ॥ १०॥ फलितमाह - मह्यं रोचते ॥ १५ ॥ शुद्धात्मन् ईर्ष्यादिरहित । प्रेम- कृतादेशेत्यादि । अयंकाल: वनवासकाल: । द्विजः भावात् प्रेमस्वभावात् । हिःप्रसिद्धौ । भर्तारंत्वामनु - लक्षणवादी । जातावेकवचनम् ॥ ११ ॥ वनवासेदु:- गच्छन्ती विकल्मषा विगतकल्मषा | भविष्यामि । खानिजानामि । तानि अकृतात्मभिः अशिक्षितमन- नन्वत्रैवस्थित्वाकुलदेवतामाराध्यविशुद्धाभवेत्यत्राह- स्कैः । प्राप्यन्ते नतुमाहरौर्जनैरितिभावः ॥ १२ ॥ | भर्ताहिममदैवतमिति ॥ १६ ॥ प्रेत्यभावेपि परलोके- मनिदर्शितं ममतारहितेननिदर्शितं ॥ ७ ॥ स० ब्राह्मणानामितिकर्तरिषष्ठी । हेमे रमे अवने निमित्तसप्तमी रक्षणार्थ । पुरा विवाहात्पूर्वं । पितृगृहेवस्तव्यं अनन्तरंपतिनिकटेवनेवस्तव्यमिति सत्यंविप्रैश्श्रुतम् ॥ ८ ॥ स० तवरमारमणत्वान्ममचरमात्वान्न त्यक्तुंयोग्याऽहमित्यप्याह । वनवासेषु कमलेषु कृतोत्साहेति ॥९॥ ति० अत्रद्विजपदेनरावणोपि । तेन यच्छ्रेतद्वीपेतेनोक्तंलक्ष्मी- निमित्तंत्वत्तोमेवधोस्त्विति तत्सत्यंभवत्वित्यपिगूढंसूचितम् । स० द्विजेत्येकवचनेन पूर्वप्रकृतब्राह्मणानामैकमत्यंद्योतयति ॥११॥ ति० अत्रत्यमिहेत्युत्तर श्लोकान्वयि | स० भिक्षिणी अपभ्रष्टभाषयाकोरवञ्जी । साधुवृत्तायाइत्यनेन नप्रतारणार्थेतदुक्तिरिति सूचयति । इहमातुः एतज्जन्मनिजनन्याः । इहेत्यस्यास्मिन्गृहइति तथा अत्रत्यमिहेतिउत्तर श्लोकान्वयीतिचव्याकरणंचिन्त्यं । अस्मिन्गृहइतीदंशब्दबोध्यरामगृहस्य तदानींतदीयत्वाभावात् । उत्तरलोकान्वयित्वस्यचागतिकगतित्वादिति ॥ १३ ॥ ति० मे मया । बहुतिथं बहुवारं ॥ १४ ॥ ती० कृतक्षणा प्राप्तावसरा | प्रतीक्षितकालेत्यर्थः ॥ १५ ॥ स० प्रेष्यभावात् दूत्यात् । ति० प्रेमभावात् भर्तारमनुगच्छन्ती विकल्मषाभविष्यामीत्यन्वयः । त्वयाविनाऽत्रस्थितौहिलोकःकल्मषंसंभावयिष्यती- तिभावः ॥ १६ ॥ [ पा० ] १ च. छ. झ ञ ट अथापिच, ख. अथवापि २ क. नियं. ३ ख. ग. घ. लाक्षणिभ्यः. च. ज. लाक्षण्ये- भ्यो. ४ क. घ. चट. गृहे. ५ क. वासे. ६ छ. झ ट भर्त्राहं. ७ घ. झ. ट. त्वयासह ८ घ. विविधानिच ९ छ. झ. ट. शमवृत्तायाः. १० छ. झ ट . वंमेबहुतिथं. ११ घ. वीराय १२ च. छ. झ ञ ट ममचर्याहि १.३ ख. प्रेष्यभावाद्धि • घ. प्रेमभावाद्वै १४ घ. विकिल्बिषा• १५ छ. झ. पर. १६ छ. झ. ट. सदा. १७ इदंप क. दृश्यते.