१२८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ स्वर्गेsपि च विना वासो भविता यदि राघव ॥ त्वया मेम नरव्याघ्र नाहं तैमपि रोचये ॥ २१ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् || वैंने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ २२ ॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् || नयस्व मां साधु कुरुष्व याचनां नै ते मयाऽतो गुरुता भविष्यति ॥ २३ ॥ तथा ब्रुवाणामपि धर्मवत्सलो न च म सीतां नृवरो निनीषति || उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ श्रीरामेणसीतांप्रतिवनस्यबहुदोषयुक्तत्वात्तद्वासस्यदुष्करत्वप्रतिपादनेन तदनुगमनानङ्गीकरणम् ॥ १ ॥ सं एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ॥ न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥ सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ॥ निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥ सीते महाकुलीनाऽसि धर्मे च निरता सदा ॥ इहाचर स्वधर्म त्वं माँ यथा मनसः सुखम् ॥ ३ ॥ वर्षसहस्राणांशतमपिनवेत्स्यामिक्षण मिवनेष्यामि | | श्वितां त्वयावियुक्तत्वेमरणायनिश्चितामित्यर्थः । मांन किंपुनश्चतुर्दशसमाइतिभावः । स्वर्गोपिनहिमेमतः यस्व | परमार्थस्तुरावणगृहीतामपित्वय्येवासक्तचित्ता- त्वयाविनेतिशेषः ।। २० ॥ एतदेवविवृणोति — स्वर्गे- म् । अथवेण्युद्धथनेनमरणाय निश्चितां । हनुमत्प्रेषणा- पिचेति ॥ २१ ॥ मृगैः आयुतम् आसमन्तायुक्तम् । दिकमुखेननयस्व | याचनां देवकृतरावणवधाभ्यर्थ- मृगैः अयुतं नामिश्रितं । मिश्रितमित्यर्थः । “युमि नम् | साधुकुरुष्व | मयाकृतात् अतः अनुगमनात् । श्रणामिश्रणयोः ” इतिधातुः । अत्रेदमवधेयं । वने ते गुरुता भारः | नभविष्यति क्लेशोनभविष्यतीत्यर्थः मारीचोमृगोभविष्यति तत्प्रसङ्गेनावयोर्वियोग: स्यात् ॥ २३ ॥ धर्मवत्सलः कान्ताक्लेशासहिष्णुः । तत्रकोवापुनर्घटकः कथंत्वंतुमयाविनास्थातुंशक्तासी- निनीषति नेतुमिच्छति । बह्रितिक्रियाविशेषणम् । तिचिन्तयन्तंरामंप्रतिसीतासूचयति – वानरवारणैरि- संनिवर्तने संनिवर्तननिमित्तम् ॥ २४ ॥ इति श्रीगो- त्यादि । तथाहि मृगोमारीच: । वानरवारणैः वानर- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्या- श्रेष्ठैः सुग्रीवादिभिः । पुनर्वनग्रहणात्वनेपि अशोकव ने अयोध्याकाण्डव्याख्याने सप्तविंशः सर्ग ॥ २७ ॥ नेपि वत्स्यामि । पुनस्तवैवपादावुपसंगृह्य संयता नि- यताभविष्यामीति ॥ २२ ॥ अन्वयव्यतिरेकाभ्यां बनेनिवासस्यचदुःखितामित्युक्तंविवृणोति-सए- स्वानुरक्तेत्युच्यते । अतएव त्वयावियुक्तां मरणायनि- वमित्यादिना ॥ १ –२ || मायथामनसः सुखं मनसो- त्वेतिनैरङ्कुश्यादुक्तिः ॥ १९ ॥ शि० अविना सर्वरक्षकेण | त्वयाविना | स० विना परमात्मरूपिणा | नाहंरोचये | अव्ययं चैतत् । तेनरोचयइत्युपपन्नम् ॥ २१ ॥ शि० प्रथमार्धेअन्त्यपादेवर्णै कन्यूनताऽपूर्वच्छन्दोद्योतनाय । यद्यपिवारणैर्युत मितिभूषण- टीकाङ्कित पुस्तकेषुदृश्यतेतथापितत्पाठस्यटीकाऽस्पृष्टत्वादेवमुक्तम् ॥ २२ ॥ ति० निवर्तने निवर्तनरूपप्रयोजननिमित्तं | वनवास- स्यदुःखतां दुखजनकतांप्रति । सत् संभवत् । बहुहेतुजातमुवाचेत्यर्थः ॥ २४ ॥ इतिसप्तविंशस्सर्गः ॥ २७ ॥ स० बाष्पदूषितलोचनां बाष्पक्लिन्नकज्जलादियुक्तलोचनं ॥ २ ॥ ती० स्वधर्म स्खवाक्य परिग्रहप्रयोजनंख कुलधर्म । इहैव [ पा० ] १ च – झ. ट. विनानर, २ क. च-ट, तदपि ३ च – ट. वारणैश्च ४ ख. घ. ज. वनेपि. ५ ग. च. झ. अ. उ. संमता. क. सर्वदा ६ छ. झ. ट. नातोमयाते. ७ छ. झ. ट. वत्सलां. ८ घ. सीतां. ९ ख. छ. दुःखतां. १० क. एवंब्रुवन्तीं सीतांतु. ११ छ. झ ट ठ धर्मज्ञां. १२ क. ख. च. छ. झ ञ ट ततस्तां. १३ क. च. ज. निवर्तनार्थ. १४ छ. झ. ट. यथामे. ग. घ. च. ज. माकृथामनसोसुखम्.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३२
दिखावट