पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥ लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ ४३ ॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च || प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ ४४ ॥ नानानगरवास्तव्यान्पृथग्जानपदानपि ॥ समानिनाय मेदिन्या: प्रधानापृथिवीपतीन् ॥ ४५ ॥ नै तु केकयराजानं जनकं वा नैराधिपः ॥ त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४६ ॥ तान्वे मनानाभरणैर्यथाई प्रतिपूजितान् ॥ ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ ४७ ॥ अथोपविष्टे नृपतौ तस्मिँन्परबलार्दने ॥ ततः प्रविविशुः शेषा राजानो लोकसंमताः ॥ ४८ ॥ अथ राजवितीर्णेषु विविधेष्वासनेषु च || राजानमेवाभिमुखा निषेदुर्नियंता नृपाः ॥ ४९ ॥ स लब्धमानैर्विनयान्वितैर्नृपः पुरालयैर्जानपदेव मानवैः ॥ उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥ १ ॥ त्मनोजरांचालोचितवानित्याह- दिवीति । दिव्यन्तरिक्षे | वनं वसन्तकालोवा ॥४४॥ नानानगरेषुवसन्तीतिना- भूमौचयान्युत्पातानितज्जंभयमित्यर्थः । तानिचोक्तानि नानगरवास्तव्याः तान् । “वसेस्तव्यत्कर्तरिणिच्च’’इति ज्योतिःशास्त्रे । “ स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजं । कर्तरितव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्था- दिविचोत्पद्यतेयच्चतद्दिव्यमितिकीर्तितं । वाय्वभ्रसंध्या- न् । मेदिन्याः भुवः । प्रधानान् नकेवलानवान्तरनृप- दिग्दाहपरिवेषतमांसिच | खपुरंचेन्द्रचापंचतद्विद्याद- तीनित्यर्थ: । पृथक्समानिनायेतिवा ॥ ४५ ॥ श्रोष्य- न्तरिक्षजं । भूमावुत्पद्यतेयच्चस्थावरंवाथजङ्गमं तदैक- तइत्यनन्तरमितिकरणंद्रष्टव्यं । अनानयनेहेतुमाह - देशिकंभौममुत्पातंपरिचक्षते” इति । भयावहानिघो- त्वरयेति । दूरवर्तित्वादितिभावः । केकयराजानमि- राणिदिव्याद्युत्पातानीतिफलितार्थ: । मेधावी सूक्ष्म- त्यत्र समासान्तविधेरनित्यत्वाट्टजभावः ॥४६॥ प्रथमं- दर्शी राजा। संचचक्षे दृष्टवान् । सचिवायोक्तवानिति- वेश्मनानाभरणैःप्रतिपूज्यपश्चात्तान्ददर्शेत्यर्थः॥४७॥ वा । आत्मनः शरीरेजरांचसंचचक्षे । ख्याञभावआ- दर्शनप्रकारमेवाह - अथेति । प्रविविशुः सभामितिशेषः। र्षः ।। ४२ ।। एवंरामाभिषेकेहेतुद्वयमुक्तं । सर्वलोक- शेषाः केकयराजजनकभिन्नाः ।। ४८॥ राजवितीर्णेषु प्रियत्वंचहेतुमाह–पूर्णचन्द्राननस्येति । अथ उत्पातद- राजदत्तेषु । नियताः नियतदेशाधिपत्याः अन्तरङ्गावा । र्शनानन्तरं । पूर्णचन्द्राननस्य तद्वत्सर्वसंतापहरस्य । पादाप्रसारणादिनियमयुक्तावा ||४९|| लब्धमानैःप्रा- महात्मनः महामतेः। रामस्य | लोकेविषये संप्रियत्वं । प्तबहुमानैः । पुरालयै: नानानगरवासिभिः । उपोपवि- कीदृशं । आत्मनः स्वस्यशोकापनुदं उत्पातादिभयनि- है: राजवचनश्रवणादरेणमन्दमन्दसमीपंप्राप्तैः । नृपैः वर्तकं । सम्यक्प्रियत्वं । बुबुधे अनुसंधावित्यर्थः मानवैश्चवृतोनृपतिः । भगवान् माहात्म्यवान् । ॥४३॥ एवमनुसंधानप्रयोजनमाह -आत्मनइति । आत्म सहस्रचक्षुः इन्द्रइव बभौ ॥ ५० ॥ इति श्रीगोविन्द - नः प्रजानांच श्रेयसे हितार्थाय | प्रियेणच प्रियायच । राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने चतुर्थ्यर्थेतृतीया । धर्मात्मा धर्मशील: । धर्मेणप्राणिसं अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ॥ १ ॥ रक्षकः । नृपः । प्राप्तकालेनोपलक्षितःसन् । भक्त्या प्रीत्या । त्वरितवान् प्राप्तकालत्वं स्वस्यवृद्धत्वं रामयौ- ति० पुरालयैः राजसेवार्थसदाऽयोध्यास्थितैः ॥ ५० ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ पा० ] १ ख. घ. च. श्रेयसाच. २ च. न. प्राप्तकालेसधर्मात्मा. ङ. छ. झ. ट. प्राप्तेकालेस. ३ क. ङ. च. झ. ट. मेदिन्यां. ४ ख. ङ. छ. झ ञ ट पृथिवीपतिः ५ अयंश्लोकः क. ख. घ – छ. झ ञ ट पुस्तकेषु तान्वेश्मेत्युत्तरश्लो- कादनन्तरं दृश्यते. ६ क. घ. नराधिपं. ७ क, ख, घ—छ. ञ. ट. परपुरार्दने, ८ च. ञ. राज्ञावितीर्णेषु. ९ क संयतानृपाः. वा. रा. ३४