पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अग्निर्वायुस्तथा धूमो मंत्राश्चर्षिर्मुखाच्युताः || उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ २४ ॥ सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ॥ ये च शेषाः सुरास्ते त्वां रक्षन्तु वनर्वासिनम् ॥ २५ ॥ इति माल्यै: सुरगणान्गन्धैश्चापि यशस्विनी || स्तुतिभियानुकुलाभिरानर्चायतलोचना ॥ २६ ॥ ज्वलनं समुपादाय ब्राह्मणेन महात्मना || हावयामास विधिना राममङ्गलकारणात् ॥ २७ ॥ घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् | उपसंपादयामास कौसल्या परमाङ्गना ॥ २८ ॥ उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् || हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २९ ॥ मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः || वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ॥ ३० ॥ ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी || दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ ३१ ॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते || वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२ ॥ यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा || अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ३३ ॥ अमृतोत्पादने दैत्यान्मतो वज्रधरस्य यत् || अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ ३४ ॥ ' त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः ॥ यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ ३५ ॥ ऋ॒तवः सागरा द्वीपा वेदा लोका दिशचे ते || मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ ३६॥ इति पुत्रस्य शेषश्च कृत्वा शिरसि भामिनी ॥ गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥ ओषधीं चापि सिद्धार्थी विशल्यकरणीं शुभाम् ॥ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ ३८ ॥ १२० नपुनरुक्तिः ॥ २३ ॥ ऋषिमुखाच्युताः निर्गताः । त्वयागृहीताश्चेतिशेषः ॥ २४ ॥ भूतभर्ता नारायणः ।। २५ ।। इतीत्यत्रमत्वेतिशेषः ।। २६-२७ ।। उप- संपादयामास होमायेतिशेषः ॥ २८ ॥ शान्ति सर्वो- पद्रवशान्ति अनामयं आरोग्यं च । उद्दिश्येतिशेष: । हुतह्व्यावशेषेण हुतहविःशेषेण | बाह्यं होमस्थानाद्व- हिर्भवं ॥ २९ ॥ मध्वादिद्रव्यदक्षिणाभिर्दत्ताभिर्द्वि- जान् स्वस्तिवाच्य पुण्याहं वाचयित्वेत्यर्थः । स्वस्त्य- ॥ ३० ॥ काम्यां अभीष्टां ॥ ३१ ॥ वृत्रनाशे वृत्रना- शनिमित्ते ॥ ३२ – ३४ ॥ विक्रमान् पादविक्षेपां ॥ ३५ ॥ शुभमङ्गलाः मङ्गलानामपिमङ्गलाः । मङ्ग- लद्रव्याणामप्यतिशयदायकाइत्यर्थः ॥ ३६ ॥ शेषान् अक्षतानि | गन्धैश्च समालभ्य विलिप्य । “समालं- भोविलेपनं” इत्यमरः । सिद्धार्थी दृष्टफलां | विशल्य- करणींच अन्तर्गतशल्यनिर्गमनकारिणींच । ओषधीं मूलिकां | मत्रैरभिमत्र्य रक्षांचकार । रक्षाहेतुत्वेनह स्वस्त्ययनक्रियाप्रतिपादकमन्त्रानित्यर्थः स्तेबबन्धेत्यर्थः । पुनर्जजापच ॥ ३७–३८ 11 शि० उपस्पर्शनकाले अस्पृश्य स्पर्शनसमये । अभ्यादयः ऋषिमुखच्युताः महात्मोपदिष्टाः मन्त्राश्चत्वांपान्तु ॥ २४ ॥ ति० भूतकर्तृ ब्रह्म जगत्कारणं ब्रह्मेत्यर्थः ॥ २५ ॥ सत्य० सर्षपान् श्वेतसर्षपान् ॥ २८ ॥ ति० बाह्यंबलिं होमस्थानाद्बहिर्भूतंलो- कपालादिबलिं ॥ २९ ॥ ति० स्वस्तिवाच्यं स्वस्तिवाचनमुद्दिश्य | मध्वादिभिरुपलक्षितानूद्विजान्कृत्वा ॥ ३० ॥ शि० यत् यादृशं मङ्गलंविजयइत्यर्थः । वृत्रनाशे वृत्रासुरवधसमये । सर्वदेवनमस्कृते सहस्राक्षे इन्द्रे | समभवत् । तादृशंमङ्गलं तेभवतु ॥ ३२ ॥ सत्य० शेषाः निजनिर्माल्यानि । “ प्रसाद निज निर्माल्यवनेशेषाचकीर्तिता " इतिविश्वः ॥ ३७ ॥ शि० सुसिद्धार्थी सुसिद्धःपरीक्षितः अर्थोयस्यास्तां । रिपुबाणभेदनकर्त्रीत्यन्वर्थसंज्ञावतीमित्यर्थः । विशल्यकरणीं ओषधिं ॥ ३८ ॥ यनक्रिया: [ पा० ] १ ङ. छ. झ. ट. मुख्यच्युताः २ ङ. छ. झ. भूतकर्तृ ञ ट भूतकर्ता. ३ ख. ङ. च. छ. झ ञ. ट. स्तेतु. ४ घ. माश्रितम्. ५ क ख ग घ - ट. श्चानुरूपाभिः ६ क – घ. ज. समुपाधाय. ७ ज. विधिवत् ८ छ. झ ट ठ. समिधञ्चैव. ९ च. झ ञ. वाच्यं. १० क – घ. च – ट. क्रियाम्. ११ ग घ. ज. रम्यां. १२ क- घ च – ट. त्रिविक्रमान्. १३ च. छ. झ ञ ट रतुल. १५ ज झ श्चताः. १६ क. ख. च. छ. झ ञ ट. शुभमङ्गलम्. ग. ज. तवकानने १७ छ. झ. शेषाच १८ च, झ ञ. ट. औषधींचसुसिद्धार्थी. क. ओषधीश्चापिसिद्धार्थाः ग. औषधं चापिसिद्धार्थ, १४ झ. ट. ऋषयः.