११२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते || वीराः संभावितात्मानो न दैवं पर्युपासते ॥ १६ ॥ दैवं पुरुषकारेण यः समर्थः प्रवाधितुम् || न दैवेन विपन्नार्थः पुरुषः सोवसीदति ॥ १७ ॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च || दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १८ ॥ अद्य मेत् पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः || यैदैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १९ ॥ अत्यङ्कुशमिवोदामं गजं मदलोद्धतम् ॥ प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ २० ॥ लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् ॥ न च कृत्स्त्रास्त्रयो लोका विहन्युः किं पुनः पिता ॥ २१ ॥ यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ॥ अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा ॥ २२ ॥ अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव || अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ २३ ॥ मद्भलेन विरुद्धाय न स्यादैवबलं तथा ॥ प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम || २४ ॥ ऊर्ध्व वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् || आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २५ ॥ पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते ॥ प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ २६ ॥ से चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया || नैवमिच्छसि धर्मात्मन्त्रीज्यं राम त्वमात्मनि ॥ २७ ॥ 'अंतिजाने च ते वीर माभूवं वीरलोकभाक् || राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २८ ॥ उपेक्षणीयतायांहेतुमाह - विक्कुबइति । विक्लब : का- | न्यूना: ॥ २१ ॥ राजत्वंसिद्धवत्कृत्याह – राजन्निति । तरः । वीर्यहीनइत्यस्यप्रतियोगितयोक्तं वीराइति । मिथ: रहसि । “ मिथोऽन्योन्यरहस्ययोः " इतिवै- विक्लबइत्यस्यप्रतियोगितयोक्तं संभावितात्मानइति । जयन्ती । तथा त्वांप्रत्युक्तप्रकारेण ॥ २२ ॥ तत् त- संभावितः सम्यक्प्रापितः दृढइतियावत् । आत्मामनो स्मात् । यातवाभिषेकविघातेनद्वारेणपुत्रराज्यायवर्तते येषांतेतथा । धीराइत्यर्थ: । नोपासते नाश्रयन्ति प्रवर्तते । तस्याः पितुश्च आशां अतितृष्णाम् । “ आ- ॥ १६ ॥ कुतोनाश्रयन्तीत्यपेक्षायांपौरुषवतोदैवेनप्र- शादिगतितृष्णयोः” इतिवैजयन्ती || २३ || मद्वले योजनहान्यभावादित्याह- दैवमिति । पुरुषकारेण नविरुद्धायजनाथ ममोग्रंपौरुषं दुःखाययथाप्रभविष्य- पुरुषबलेन । दैवंबाधितुं अतिक्रम्यवर्तितुं | यः समर्थ: ति तथा दैवबलंनस्यात् सुखायनभवेत् ॥ २४ ॥ नक- स दैवेनविपन्नार्थ : विहतप्रयोजन: सन् नावसीदति दाचिदपि भरतस्यराज्यप्राप्तिरस्तीत्याह- ऊर्ध्वमिति । नक्लिश्यति ॥ १७ ॥ पुरुषकारापेक्षया दैवस्यदुर्बलत्वे ऊर्ध्वमित्यस्यविवरणं वर्षसहस्रान्तइति । प्रजापाल्यं प्रत्यक्षंप्रमाणयति—द्रक्ष्यन्तीति । पौरुषं सामर्थ्य | प्रजापालनं | स्वार्थेयत्प्रत्ययः । ऊर्ध्ववर्षसहस्रान्ते त्व- व्यक्तिः प्रबलदुर्बलविवेकः | व्यक्ता स्फुटा । भविष्य - यि वनंगतेसति वानप्रस्थाश्रमस्थेसति । अनन्तरंप्रजा- ति ॥ १८ ॥ तदेवस्पष्टमाह — अद्येति । यदैवात् य- पाल्यं आर्यस्यतेपुत्राः करिष्यन्ति ॥ २५ ॥ मदुक्तए- स्माद्दैवात् । आहतं विनितं । तेराज्याभिषेचनंदृष्टं त- ववनवासः पूर्वसंमतइत्याह — पूर्वेति । पुत्रेषु प्रजा: पु दैवं मत्पौरुषहसंद्रक्ष्यन्ति ॥ १९ ॥ अत्यङ्कुशं अति- त्रवत्परिपालने परिपालननिमित्तं । निक्षिप्य पूर्वरा क्रान्ताङ्कुशव्यापारं । उद्दामं छिन्ननिगलं । मदबलो- जर्षिवृत्त्या तदाचारेण । वनवासोविधीयते ॥ २६ ॥ द्धतं मदबलाभ्यांगर्विष्ठं । प्रधावितं दुर्निवारं । स्वच्छ - सचेदित्यादिश्लोकद्वयमेकान्वयं | हेराम स त्वं राजनि दगमनं । गजमिव दुर्निवारत्वेनत्वदभिमतंदैवपौरुषेण दशरथे । एवं अनेकाग्रे चलचित्ते अव्यवस्थितचित्तेस निवर्तये ॥ २० ॥ ते प्रसिद्धाः । हेरामतेतवाभिषेच- ति । राज्यविभ्रमशङ्कया राज्यस्यविविधचलनशङ्कया नमितिवा । नविहन्युः नविहन्तुंशक्ताः । कृत्स्नाः अ- | आत्मनिराज्यंनेच्छसिचेदहंतवराज्यंचरक्षेयं । कथ- - ति० तदाशां तामाशाम् ॥ २३ ॥ सत्य० राज्यविभ्रमशङ्कया राजाननुवृत्त्याराज्यग्रहणेतग्रंशोभूयादितिशङ्कया ॥ २७ ॥ [ पा० ] १ ख. व्यक्तं. २ झ मेपौरुष. ३ ङ~~छ. झ. ज. ट. यैर्दैवा. ४ ङ. च. छ. झ, ञ, जलोद्धतम्. ५ ख. ग. घ. ज. तथासमाः ६ ङ. च. छ. झ ञ ट धक्ष्यामि ७ ङ. छ. झ ट इभिधीयते ८ घ, नचेद्राज ९ ख. राज्यकामत्व. १० क. घ. प्रतिजानामि.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११६
दिखावट