पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० श्रीमद्वारमीकिरामायणम् । [ अयोध्याकाण्डम् २ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ॥ पुत्रः को हृदये कुर्याद्राजवृत्तमनुसरन् ॥ ८ ॥ यावदेव न जानाति कश्चिदर्थमिमं नरः || तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ९ ॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव ॥ कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ १० ॥ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ || करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ ११ ॥ भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ॥ सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ १२ ॥ प्रोत्साहितोऽयं कैकेय्या सँ दुष्टो यदि नः पिता || अमित्रभूतो निस्सङ्गं वॅध्यतां वध्यतामपि ॥१३॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥ उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ १४ ॥ बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ || दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १५ ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ॥ कींऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १६ ॥ अनुरक्तोसि भावेन आतरं देवि तत्वतः ॥ सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १७ ॥ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ॥ प्रविष्टं तत्र मां देवि त्वं पूर्वमँवधारय ॥ १८ ॥ हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः ॥ ' देवी पश्यतु मे वीर्य राघवश्चैव पश्यतु ॥ १९ ॥ [ हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् || कृपणं चँ स्थितं वाल्ये वृद्धभावेन गर्हितम्] ॥ २० ॥ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ॥ उवाच रामं कौसल्या रुंदन्ती शोकलालसा ॥ २१ ॥ आतुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ॥ यदत्रानन्तरं कार्य कुरुष्व यदि रोचते ॥ २२ ॥ नं चाधर्म्यं वचः श्रुत्वा सपत्या मम भाषितम् ॥ विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥२३॥ बाल्यं बालभावं । कामपारवश्यमित्यर्थः । राजवृत्तं | स्य गर्वितस्य | उत्पथम् अमर्यादाम् ॥ १४ ॥ बलं राजनीतिम् ॥ ८ ॥ शास्यतइतिशासनं राज्यं । आ- राजत्वप्रयुक्तबलं हेतुं वरदानरूपहेतुंवा ||१५-१६॥ त्मस्थंकुरु स्वाधीनंकुर्वित्यर्थः ॥ ९ ॥ तवाधिकंकर्तुं त- अनुरक्तइति । दत्तेन दानेन । इष्टेन देवार्चनादिना वपौरुषाधिकंपौरुषंकर्तुमित्यर्थः ॥ १० ॥ विप्रिये ॥ १७–२१ ॥ श्रुतं वाक्यजातमितिशेषः । परम- प्रातिकूल्ये ॥ ११ ॥ पक्ष्य: सहायभूतोवर्गः ||१२|| | धार्मिकराममातृत्वाच्चापलंविहाययदिरोचतेइत्युक्तवती अमित्रभूतोयदि शत्रुपक्षसहायभूतश्चेदित्यर्थः ॥ १३॥ ॥ २२ ॥ पितृवचनपरिपालकस्यरामस्यलक्ष्मणवच- स्वोक्तार्थे धर्मशास्त्रंप्रमाणयति - गुरोरिति । अवलिप्त- | नमसह्यमितिज्ञात्वाह –नचेत्यादिना ॥ २३ ॥ य्यादीनामपिविषये ॥ ७ ॥ शि० बाल्यं स्वदत्तकैकेयीवराच्छादनं । बाल्यमितिसंवरणार्थकबलधातुप्रकृतिकण्यदन्तं ॥ ८ ॥ ति० कुरुशोभनमितिपाठे राज्यफलकमभिषेकं ॥ ९ ॥ वि० अधिकं त्वदाज्ञोल्लङ्घनपूर्वकमभिषेकविघ्नं ॥ १० ॥ ति० संतुष्टः तस्या॑संतुष्टः । सत्य० निस्सङ्गं निस्नेहंयथाभवतितथा ॥ १३ ॥ सत्य० एषराजा कैकेय्यैतवोपस्थितंकृप्तं राज्यंदातुमिच्छति किल । तत् किंबलमाश्रित्य कैकेय्याः स्वस्थवा । अथवा अतीतानागतज्ञत्वंलक्ष्मणस्यकविरवगमयति- बलमित्यादिना । हेपुरुषो- त्तम एषराजाकैकेय्यैयद्दातुमिच्छतितत्तवैवोपस्थितम् ॥ १५ ॥ शि० अनुत्तमं निषिद्धं ॥ १६ ॥ सत्य० देवि भवतीपश्यतु । राघवश्चपश्यतु । देवीतिदीर्घे देवीकैकेयी | राघवो दशरथः ॥ १९ ॥ सत्य० वृद्धमपिबाल्ये मौ स्थितं । अतएवगर्हितं । वृद्धभावेन त्वय्युद्रिक्तयाभक्त्या | भावोभक्तिरितिप्रोक्तइतितात्पर्योक्तेः । हनिष्यामि | पदव्यत्ययेननममत्वद्भक्त्येकशरणस्यजनक- हननहेतुकोव्यत्यय इतिकविर्भावमाविष्करोति । कृपणः कदर्यः ॥२०॥ शि० तत्वंयाथार्थ्यविशिष्टं | अनन्तरंकापट्यरहितं ॥२२॥ ति० गुरुवचनंकथंवानकार्यमित्याशङ्कय नैतद्गुरुवचनं किंतुसपत्यैवोक्तमित्याह – नचेति ॥ २३ ॥ [ पा० ] १ ख. ग. घ. ज. समर्थोप्रियं. २ घ. निर्मानुष्यां. ३ ग. घ. ज. कृत्स्नां. ४ क. पुरुषर्षभ. ५ ङ. च. छ. झ. ञ. ट. सर्वोस्तांश्चवधि ६ घ ङ छ - ट. संतुष्टो. ७ झ. बध्यतांबध्यतामपि. ८ क. ख. घ— ट. पुरुषोत्तम. ९ झ. ठ. उपस्थितं. १० ट. कास्यशक्तिः प्रियं. ज. कस्यशक्तिः श्रियं. ११ क. कर्शन. १२ क. ग. घ. ज. मुपधारय. १३ठ. देवि. १४ इदंप झठ दृश्यते. १५ घ. कैकेय्यां. १६ क. घ. च. ज. चास्थितं. १७ च. मोहितम्. १८ घ - छ. झ. ञ. रुदती. १९ङ–ट तवं. २० ग. एतत्तुवचनं. }*