पृष्ठम्:वायुपुराणम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
पृथमोऽध्यायः


(+मन्त्राणां ब्राह्मणानां च लक्षणं परिकीर्तितम् । ईश्वरार्णामृषीणां च मनः पितृ-
गणस्य च ) ।।११५
(*वेदस्य तद्विजातानां मन्त्राणां च प्रकीर्तनम् । शाखानां परिमाणं च वेदव्यासादि-
शब्दनम् ॥११६
मन्वन्तराणां संहर संहरन्ते च संभवः । देवतानामृषीणां च मनोः पितृगणस्य च ॥११७
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः । मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता ।११८
मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् । अतीतानागतानां च वर्तमानेन कीर्यते ॥११६
तथा मन्वन्तराणां च प्रतिबंधानलक्षणम् । अतीतानागतानां च प्रोक्त स्वायंभुवेऽन्तरे १२०
मन्वन्तरत्रयं चैच कालज्ञानं च कीर्यते । मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम् ।।१२१
दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुता । ब्रह्मादिभि स्ते जनिता दक्षेणैव च धीमता।१२२
सावण्यद्यश्च कीर्यन्ते मनवो मेरुताश्रिताः । ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम् ।।१२३
पृथुना वाऽपि वैन्येन भूमेर्देहप्रवर्तनम् । पात्राणां पयसां चैव वंशानां च विशेषणम् ॥१२४
ब्रह्मादिभिः पूर्वमेव दुग्धा चेयं वसुंधरा ।दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतेः ।।१२५
दक्षस्य कीर्यते जन्म सोमस्यांशेन धीमतः। तभर्यभवेशत्वं महेन्द्राणां च कीर्यते ॥१२६


मन्त्र और ब्राह्मण के लक्षण तथा ईश्वर, ऋषि, मनु और पितरों के लक्षण बताये गये हैं । वेद तथा उनके मन्त्रों का वर्णन एवं शाखाओं की गणना तथा वेदव्यास आदि की बातें है । मन्वन्तरों का संहर तथा संहार के पश्चात् देवता, ऋषि, मनु तथा पितरों को उत्पत्ति विस्तार से नही कही जा सकती अतएव संक्षेप में कही गई है एवं मानुष गणना से मन्वन्तर की संख्या बताई गई है ।११५-११८। सभी अतीत और वर्तमान मन्वन्तरों का यह लक्षण वर्तमान से लेकर बताया गया है । फिर स्वयम्भुव मन्वन्तर में अतीत और वर्तमान सभी मन्वन्तरो का प्रतिसन्धान (मर्यादा) बताया गया है । तीनों मन्वन्तर, उनका अवसान एवं मन्वन्तरों के देवताओं तथा प्रजापतियों का वर्णन है । दक्ष के दोहित्र (उनकी प्रिय-पुत्री के पुत्र, ) जिनको बुद्धिमान् दक्ष ने ही ब्रह्मा आदि के द्वारा उत्पन्न कराया । वे साबण आदि मनु सुमेरु पर्वत के रहने वाले है। उनका फिर उत्तानपाद ध्रुव की प्रजासृष्टि का वर्णन है । वेन के पुत्र पृथु से पृथ्वी का दोहन, पात्रों और दुग्धो तथा वंणो का वर्णन है । इसके पहले भी इस पृथ्वी का दोहन, ब्रह्मा आदि तथा दश प्रचेताओं ने दिया था ।११६-१२५। फिर सोम के , अंग से मारिया में श्रीमान् प्रजापति दक्ष की उत्पत्ति का और महेन्द्र के भूत भविष्यत् तया वर्तमान के शासक होने का वर्णन है।१६६।।


+ धनुश्चिह्न्तर्गतग्रन्थः क. पुस्तके नास्ति ।xधनुश्चिह्नान्तर्गतं नास्ति घ. पुतस्के ।