पृष्ठम्:वादनक्षत्रमाला.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ पूर्वोत्तरमीमांसा क्तयौगिकार्थप्रतीतिमद्भावे हि तलोपानुशासनं सार्थकं भवन अत एव । पञ्चाला नाम केचन क्षत्रिया: तेषां निवासी नपद: '–इति विवक्षायाम • सोऽम्य निवास: '—इत्यर्थे प्राग्दीव्यनीय: प्रत्ययो भवति–इति मत्वा * तस्य जनपद लुप्' इति यल्लापानुशामनं जरद्वैयाकरणै: कृतम् ; तन्न क शेषस्यैव प्रतीत्युदयादिति दूषितं पाणिनिना : लुब्यः गाप्रत्याख्यानान्' इति सूत्रेण “ अशिष्यम' इति पृवं. अन्यद्राधकम- अरुणाधिकरणे हि : अरुणया पिङ्गः क्ष्यैकहायन्या सोमं क्रीणाति' इति श्रुतिगतस्य अरुणापदम् अरुणिमगुणपरत्वमङ्गीकृत्य अरुणिमगुणैकहायनीद्रव्योभय साधनकक्रयभावनाविधिः अङ्गीकृत: । स तु गुणवचनान गुणमात्रशक्त्यङ्गीकारे संगच्छते । अरुणाशब्दस्य पिङ्ग । तस्य गु