पृष्ठम्:वादनक्षत्रमाला.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ श्रुत्या हिंसायास्तच्छेषत्वप्रतीतेः, तस्य आख्यातवाच्यभावना क्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तृशेषत्वप्रतीतेः । नात्र क्रतोर्वाचकं किंचिदस्ति । येन * अथातोऽग्मिन्निष्टोमेनानुयजन्ति ' इत्य नारभ्याधीतवाक्ये चित्याग्रेर्यजिशब्दोक्तयागशेषत्ववत् अ स्याः क्रतुशेषत्वमवगम्येत । नापि क्रतोराक्षेपकं किंचिदस्ति, येन पर्णताया जुह्वाक्षिप्रक्रतुशेषत्वमिव अस्याः क्रतुशेषत्वमव गम्येत । न च प्रकरणेन क्रतोर्विपरिवृत्तिरस्ति, येन * नानृतं वदेत् ' इति दर्शपूर्णमामप्रकरणान्नातवाक्ये अनूद्यमानस्यानृ तवदनस्येव क्रत्वर्थत्वप्रतीतिर्भवेन् । तम्मादिह हिसिधातुना अनुवादः शीघ्रप्रतीतायाः पुरुषार्थहिंसाया इति तस्या एव शक्यस्य वाक्यार्थान्वयो न विलम्बोपस्थितिकम्य --- इति हि न्यायमर्यादा । अत एव * दर्शपूर्णमामाभ्यां स्वर्ग कामो यजेत ' इत्यधिकारवाक्यगतपूर्णमासपदेन उत्प त्तिवाक्यश्रुतपौर्णमासीकालयोराग्रेयामीषोमीययागयोरेव झ टिति प्रवृत्तिानिमित्तावगत्या शीघ्रोपस्थितया: फलान्वय स्यान् इति पौर्णमासीकालकर्नत्र्याग्रयाग्रीषोमीययागद्वयान्तराले वि धानादर्थसिद्धपौर्णमासीकालस्य झटिति प्रवृत्तिनिमित्तान