पृष्ठम्:वादनक्षत्रमाला.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हारेण * यागेन अपूर्वं कृत्वा स्वर्ग भावयेत्' इति वाक्यार्थ . प्रतीतिः, पश्चादपूर्वभावनेतिकर्तव्यतारूपेण अङ्गानामपूर्वा न्वय इति स्वीकारादिति चेत् , सत्यम् , अपूर्वार्थतया अ ङ्गानुष्ठानेऽपि अङ्गचिकीर्षाया: फलरागाधीनत्वं न हीयते न हि तन्मते विधिसिद्धिरेव विधेः फलमिति तदर्थमङ्गानु ष्ठानम् । किंत्वपूर्वं विना स्वर्गदिफलं न सिध्यतीति परंपरया फलरागाधीनमेव तदनुष्ठानम । तस्मात्क्रत्वर्थपशुसंज्ञपनम्य हिंसात्वाभ्युपगमे 'न हिंस्यान्' इति निषेधविषयत्वमनि ( { पूर्वोत्तरमीमांसा /** तदथ मारणस्य हिंसात्वेऽपि “ न हिंस्यात' इति निषेधो न प्रम ज्यते । स हि निषेधः शीघ्रप्रतीतिकपुरुषार्थहिंसाव्यावर्तनेन नित:, कल्पनीयविलम्बोपस्थितिकक्रत्वर्थहिंसां न स्पृशति । तथाहि-' न हिंस्यान् ' इत्यत्र पुरुषार्थव हिंसा हिसिधातु