पृष्ठम्:वादनक्षत्रमाला.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सद्वान्तास्थात यथा मासामिहोत्रमग्निहोत्रपदवाच्यम , एवं मीमांस कानां प्रकरणान्तराधीतक्रत्वर्थपशुसंज्ञपनं हिासिधातुवाच्यम ; तथापि * न हिंस्यान् ' इति निषेधविषयो न भवति- इति हेिसिधात्वर्थवादः । अत्र वादिनां बहुविधाः पन्थान:–प्राभाकरास्तावन् –- रागप्रयुक्ता हिंसा निषेधविषयः । क्रत्वर्थसंज्ञपने तु न रागतः प्रवृत्तिः । किंतु विधितः– इति व्यवस्थां कल्पय न्ति । कौमारिलनैयायिकादयस्तु– रागं विना प्रवृत्त्यसंभवान् नेयं व्यवस्था युज्यते; किंतु विधिसंस्पृष्टस्य निषेधविषयताया विरुद्धत्वेन-आहवनीयादिविधिः पदहोममिव-हिंसानि षेधः क्रत्वर्थसंज्ञपनं परिहृत्य प्रवर्तते–इति व्यवस्था वर्ण नीया – इत्याहुः । सांख्यास्तु--न केनापि प्रकारेण व्यवस्था वर्णनीया क्रत्वर्थसंज्ञपने विध्यधीनस्य इष्टसाधनत्वस्य नि षेधाधीनस्यानिष्टसाधनत्वस्य च ममावेशसंभवात् । पशुवः गमेन ऋतुसाध्यमहाफलार्थतया प्रवृत्तेरुपपन्नत्वेन विधिनिषे