पृष्ठम्:वादनक्षत्रमाला.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३६७ उत्कर्षापकर्षप्रतिभासोपपत्तेः ; त्वदनुमानमेव श्रुतिबाधितम् , एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति हि सांसारिकानन्दजातस्य ब्रह्मानन्दलेशत्वं श्रुतम् , तथा आनन्दवल्याम् “ सोऽश्नुते सवोन् कामान्सह ब्रह्मणा वेप श्चिता’ इति ब्रह्मविदः सकलवैषयिकानन्दवदितं फलमुक्त्वा निधृतसकलसंसारस्य कथं सुखावाप्तिः फलमुच्यत इति शङ्कानिराकरणार्थम् अग्रे तद्विवरणप्रस्तावे ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य “ युवा स्यात् साधु युवाध्य यकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः’ इति मानुषषु सर्वोत्कृष्टतया सभावतमानन्द प्रथममभिधाय तत गन्धवादिप्राजापत्यन्तनामानन्दानाम् उत्तरात्तरशतगुणानु क्रवा, “ ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रीत्रियस्य चाकामहतस्य इतेि प्रजापत्यनन्दत् शतगुणत्वनभिधीयमानस्य ब्रह्मानन्दस्य मुक्तभाग्यत्वाभेि धानात् तस्य । सकलवैषयिकानन्दानन्तजलकाणिकामहासमु- द्रायमाणत्वेन तावदानन्दसमष्टिरूपत्वं दर्शितमिति ॥ अथ चतुथी कक्ष्या उत्कर्षापकर्षयोः भेदकधर्मत्वेन तय: सतः भेदस्यौत्स-