पृष्ठम्:वादनक्षत्रमाला.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रपञ्चसत्तानेराकरणवादः । यथा शुक्तिरजतादिकम् अग्रे नेदं रजतमित्यादिप्रकारेण बाध्यमपि भ्रमकाले शुक्ती दंतया इदमितिवत् शुक्तिसत्तया सदिति प्रतीयते, एवं जगदपि ब्रह्मसत्तया सदिति प्रतीयते, न स्वधर्मरूपया सत्तयेति निर्णयार्थं कथान्तरं प्रस्तूयते -- सन् घटः इति प्रतात भासमानसत्ता । घटधर्म: , सन् घटः इति प्रतीतिप्रकारत्वात् , घटत्ववत्~ इति पूर्वपक्षिणः प्रथमा कक्ष्या । अथ द्वितीया-- अप्रयोजकमिदम् = शुक्तिरजतस्य अधिष्ठानसत्तयेव । प्रपञ्चस्य सवपादानभूतया ब्रह्मासत्तया सप्रतीतोवषयत्व पपत्तः; तस्मात् सन् घट इत्यत्र भासमानसत्ता घटधम न भवति, सन्मात्रवृत्तित्वात्, आनन्यवत् इति । अथ तृतीया- नाप्रयोजकं मदनुमानम् , घटः सन्निति घटवतौल्येन घटविशेषणतया घटधर्मत्वेन भासमानायाः सत्तायाः बाध काभावेन तथात्वस्येव स्वीकरणीयत्वात् त्वदनुमानमेवप्रय