पृष्ठम्:वादनक्षत्रमाला.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ पूर्वोत्तरमीमांसा तोत्पत्तौ कारणसत्त्वात् असंनिहितरजतभाने कारणाभावाच्च मदनुमानं न बाधितविषयम् , त्वदनुमानमेव बाधतवे षयमिति सिद्धं शुक्तिरजतादिकमिदं पुरोदेशवर्ति प्रसिद्धरज- तादिभिन्नमिति ; एतेन स्वप्नचित्तभ्रममनोराज्यविषया अपि व्याख्याताः ।। इति शुक्तिरजताद्युत्पत्तिसमर्थनवादः ।। २५ ॥