पृष्ठम्:वादनक्षत्रमाला.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३ ५३ नलनकषसत्त्वात् ; न च तथा सते वह्नयनुमतेस्थले प्रत्य क्षदयप्रसङ्गः , अलौकिकप्रत्यक्षसामग्रयपेक्षया समानेऽपि विषये अनुमितिसामञ्या बलवत्वाभ्युपगमत् ; अतः प्रागुक्क रीत्या त्वदनुमानमेव बाधितविषयमिति । । अथ सप्तमं -- तथा सति संशयोत्तरभ्रमरूपप्रत्यक्षस्थले अनुमितिप्रसङ्गः अतो गत्यन्तराभावात् दोष एव उपपादनय - इतेि मदु क्तरीत्या मदनुमानं न बाधितविषयम् ; किं तु त्वदनुमान मेवेते । अथाष्टमी- प्रमारूपालौकिकप्रत्यक्षसामग्रयपेक्षयैव अनुमितिसामग्री बलवती ; संशयोत्तरप्रत्यक्षस्थले श्रमरूपालौकिकप्रत्यक्षसामग्री तु अनुमितिसामश्यपेक्षया बलवतीति नोक्तदोष इति ।। अथ नवमं -- तथा सति भ्रमरूपधूमपरामर्शस्थले वह्नथभाववति भ्रम रूपवह्निप्रत्यक्षप्रसङ्गः, अतस्तत्र ज्ञानस्य संनिकर्षत्वायोगात् दोष एव शरणीकरणीय इति तदवस्थो मदुक्तदोषः इति ॥ अथ दशमं

  • V. 23