पृष्ठम्:वादनक्षत्रमाला.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा सिद्धवत्कृत्य, तेभ्यः तेषु नाम्रा धर्मातिदेशस्य व्यवहृतत्वात् । । न । अनुमान इव दृष्टान्तसद्भावायत्तमभिमतार्थसमर्थनमिति प्रकृतार्थसिद्धौ अवश्यापेक्षितद्वष्टान्तोपादानं कृतम् , दृष्टा न्ताभावेऽपि विधेयगुणभावनाश्रवणाभावेनैव प्रत्यभिज्ञापन मात्रं गृहमेधीयादिवाक्यकृत्यमिति उपपादयितुं शक्यत्वान् । कतु यत्र प्रत्याभज्ञापनमात्र वाक्यकृत्यामत्यभ्युपगम अनु पपत्तिरस्ति, तत्रापि तदभ्युपगम: प्रौढिवादेन कृतो दृश्य ते ; स: यत्रानुपपत्तिर्नास्ति गहमेधीयादिवाक्ये, तव पार कोऽपि विरोध इति । तस्मान् यदुत्तम नियम इति, तन्नियमभञ्जनमनुक्तोपालम्भनम् । न हि तथा मया नियम उक्तः । किंतु यथा विधानभेदे वाक्यभेदो भवति, नैवं विधानप्रत्यभिज्ञाभ्यां मंभवति– इत्येताव क्तम् । तत्र नास्ति कश्चन दोषः । न च तत्रापि प्रत्यभिज्ञा पन्नं विधानमपीति व्यापारभेदेन वाक्यभेदः शङ्कनीय प्रसिद्धाभेदबोधनं हि प्रत्यभिज्ञापनमुच्यते ; न त्वप्रसिद्धाभेद