पृष्ठम्:वादनक्षत्रमाला.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ पूर्वोत्तरमीमांसा चित् प्रबोधितस्य अपवरके एव उत्थानं च विरुद्धम् ; प्रबो- धकालं गतस्य झ प्रत्यगमनाङ्गीकारे तावदूरं आह्वानमात्रेण टिति उत्थानं विरुद्धम् ; तथा काञ्च्यां रात्रौ शयितस्य स्वप्ने दिव दक्षिणादिशं प्रस्थय घटिकामात्रेण काशीप्राप्ति- दर्शनम् , काकर यां शयितस्य अप्रस्थायैव काशवृत्तन्तदः शेन च विरुद्धम् ; मुहूतमात्रवतनि स्वप्ने बहुकालं काश्या- दिसंचरदर्शनं च विरुद्धम ; तस्मात् सर्वविधविरोधपरिहा राथै बहिष्कुलायश्रुतिः बहिष्कुलायादिव चरित्वा इति भा ततया व्याख्येया ; अत एव “ यत्रैतत्स्वपया चरति’ इत्युप क्रम्य “ स्वे शरीरे यथाकामं परिवर्तते’ इति श्रुत्यन्तरम ; एवं च शरीरान्तरऽपि नास्ति प्रमाणम ; देशान्तरं गच्छ न्तमात्मानमनुभवन्नपि स्वप्नदृक् येन शरीरेण शयितः तेनैव शरीरवन्तमात्मानं मन्यते ; शरीरान्तरग्रहणे तदंशे भ्रमत्वं स्वप्नस्य त्वयापि स्वीकरणीयं स्यात्; एवं वह्नयादिरहिते देशे वह्नयादिसृष्टयङ्गीकारे प्रबोधनानन्तरं तद्देशं गत्वा पश्य २ तः तत्र भस्माद्यदशनं च विरुद्धम ; यत्र दश महाहदादेक tतष्ठते तत्र वांद्रे जलादेदशनं च विरुद्धम , यत्र गपुरप्रासा दादिकं तत्र कश्चित् स्वप्नदृक् वनं पश्यति, तदैव कश्चित् सेनां पश्यति, अन्यः समुद्रम् , परः शैलमिति बहूनां मूर्तानां युग-