पृष्ठम्:वादनक्षत्रमाला.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० पूवतरमीमांसा मते इष्टपुरोवतिभेदाग्रहादिकूटो मिथ्याज्ञानकारणम् , त्वन्मते पुरोवर्यंगृहीतासंसर्गेत्यादि ; केवलद्रव्यविषयस्य चाक्षुषज्ञान स्यनुदयात् तदीयशुक्लरूपस्य च तदनीमस्फुरणात् ; नापि आरोपितस्मरणम् नदीजलादिषु नीलं जलमिति नियमेन नै- ल्यवेशेष्टतयैव जायमन ज्ञाने नियतं संभवते ; न चयम नुभूयमानारोपः अतिधवलासु सिकतासु प्रवहति नदी जले नीलद्रव्यसंनिधानाभावात् ; न च अविनाभूतोपष्टम्भक कल्पनं युक्तम्; तस्यैव नदीजलस्य वियति विक्षिप्तस्य शौ- क्ल्यदर्शनात्; तस्मात् मदनुमानस्य नासिद्धिः अप्रयोजकत्वं वा, त्वदनुमानस्य तु प्रतिकूलतर्कपराहतिरिति सिद्धं शुक्तिर जतादिज्ञानमयथार्थमिति । इति अयथार्थज्ञानसमर्थनवादः ।। २३ ।। । |