पृष्ठम्:वादनक्षत्रमाला.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३ ३७ संभवात्; तस्मात् स्वातन्त्र्यानिरुक्त्या तत्सहितभेदाग्रहस्य प्रवृत्तौ कारणत्वं तदवच्छेदकत्वं च नोपपद्यत इति न मढ़े. तोरसिद्धिः अप्रयोजकत्वं वा, त्वद्धेतोश्च प्रतिकूलतर्कपराह- तिरिति ।। अथाष्टम कक्ष्या स्वातन्त्र्यमिह पुरोवर्यंगृहीतसंसर्गभेदप्रतियोगित्वासं स ऍग्नदभाववत्त्वं विवक्षितम् , तथा च इदमिति न रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये पुरोवर्तिनि रजतभेदस्यासंसर्गाप्रहोऽस्ति. —इदं रजतमिति भ्रमोदये रज• तस्येव; तथा च तत्र पुरोवर्यंगृहीतसंसर्गभेदप्रतियोगित्वेन रजतस्य ग्रहणात् तत्प्रतियोगित्वसंसर्गाग्रहोऽस्तीति तदभा वाभावात् न तत्र रजतार्थिप्रवृत्तिप्रसङ्गः, नापि इदं नेति रजतमिति च ज्ञानद्वयमकस्य नेदं रजतमिति भ्रमस्योदये तप्रसङ्गः, तत्र पुरोवर्तिनि गृहीतसंसर्गत्वेन अगृहीतासंसर्गे यो भेदः तत्प्रतियोगित्वस्यासंसर्गे इष्टे यद्यपि वर्तते, तथापि तस्य नेदं रजतमिति भ्रमदशायाम् अग्रहस्य सत्त्वेन तदभा- वाभावात् ; इदं रजतं घटनिष्ठभेदप्रतियोगि इति ज्ञानोदये च नाप्रवृत्तिप्रसङ्गः, तत्र रजते भेदप्रतियोगित्वसंसर्गप्रहणेन तदसंसर्गग्रहरूपविशेष्यसंभवेऽपि पुरोवर्तिनि भेदासंसर्गरू

  • V. 22