पृष्ठम्:वादनक्षत्रमाला.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ पूर्वोत्तरमीमांसा असिद्धिः अप्रयोजकत्वं वा; मदनुमानस्य न प्रतिकूलतर्क पराहतिरिति । । अथ सप्तमं कक्ष्या S A यदे भेदप्रतियोगित्वेन अनुपस्थितत्वं तत् , तद् इदं रजतं घटनिष्ठभेदप्रतियोगि- इति ज्ञानादप्रवृत्ति: ; यदि पुरोवर्तिनिष्ठभेदप्रतियोगित्वेनानुपस्थितस्वम् , तदा नंद रजत मिति भ्रमस्थले दोषः तदवस्थः; ननु पुरोवत्येगृहृतासस गंभेदप्रतियोगिस्वेनानुपस्थितत्वं स्वतन्त्र्यम् ; अत: तदभा वात् नेदं रजतमिति भ्रमेण न प्रवृत्तिप्रसङ्गः, तत्र पुरोव र्तिनि रजतभेदसंसर्गाग्रहसत्वेन तद्विशेषितभेदप्रतियोगि- त्वोपस्थतेः विद्यमानतया तदभावाभावात् ; नापे इदं रजतं घटनिष्ठभेदप्रतियोगि इति ज्ञानेन अप्रवृत्तिप्रसङ्गःतत्र पुरो वर्तिनि रजतभेदसंसर्गरूपरजताभेदप्रहसत्त्वेन तदभावविशे षितभेदप्रतियोगित्वोपस्थित्यभावसत्त्वात् इति चेत् , न ; एव मपि यत्र इदं नेति भेदविशिष्टपुरोवर्तिज्ञानं रजतस्मरणं च इति ज्ञानद्वयरूपः नेदं रजतमिति भ्रमः, तत्र रजतार्थिप्रवृ तिप्रसङ्गात्; न चेदं भेदज्ञानं न संभवतीति वाच्यम्, इदमिति न रजतमिति नद्वयपक्षे अधिकरणविशेषानुले खिन इव इदं नेति प्रतियोगिविशेषानुल्लेखिनोऽपि भेदज्ञानस्य