पृष्ठम्:वादनक्षत्रमाला.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । ३ ३५ तिप्रसङ्गदोषः तदवस्थः, पुरोवर्तिगतस्य विशिष्टाभावस्य इ- प्रभिन्नत्वप्रकारकज्ञानविषयत्ररूपविशेष्याभावमात्रादपि सि ध्यतः स्वतन्त्रपस्थितत्वरूपवेशेषणस्यापि अभाव सुतरा स डैः; तत्र स्वतन्त्रोपस्थितत्वं नास्तीत्यभिप्रेत्य खलु इदं विशेषणं दत्तम् ; अतः तदभावादपि विशिष्टाभवः कथं न सिध्येत् नेदं रजतमिति प्रमास्थलेऽपि रजतार्थिप्रवृत्तिः स्यादिति दोषश्च अत्र अधिकः; तत्र विशेषणाभावाद्विशिष्टाभावसि- द्धः; अत: त्वद्विवक्षितविशिष्टाभावस्य प्रवर्तकत्वं ज्ञानगत प्रवर्तकतावच्छेदकत्वं च न संभवतीति विशिष्टज्ञानस्यापि अयं दोष इति मदनुमानस्य न हेत्वसिद्धिः, न वा अप्रयो- जकत्वम्; वदनुमानस्य प्रतिकूलतर्कपराहति: इति । अथ षष्ठं कक्ष्य भेदाग्रहशब्दोक्तविशिष्टाभावप्रतियोगिकोटौ इष्टविशेषण- त्वेन स्वातन्त्र्यं न निवेशितम् , इष्टभिन्नत्वप्रकारकज्ञानदशा याम् इष्टस्य भेदप्रतियोगित्वेन उपस्थितिविषयत्वनियमेन तद- भावविशिष्टेष्टविशेषितस्य प्रतियोगिनोऽप्रसिद्धया तदभवाप्र सिद्धपापत्ते: ; किं तर्हि ? स्वतन्त्र्यमपि प्रवृत्तौ पृथक्कारणम् ; अत: तदभावात् नेदं रजतमिति प्रमभ्रमस्थलयोः प्रवृत्त प्रसङ्गाभावत् उक्तभदाप्रहस्य प्रवर्तकत्वसत्वत् त्वदनुमानस्य