पृष्ठम्:वादनक्षत्रमाला.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयथार्थज्ञानसमर्थनवादः । अथ असाधारणस्य ज्ञानप्रमण्यरस्य सर्वोशनसाधारण्यं वदतां मतं निराकर्तुं कथान्तरं प्रस्तूयते — तेषामित्थं मतम्- सर्वं ज्ञानं यथार्थम् , शुक्तिरजतादिः 4A इनमपेि प्रहणस्मरणाद्यात्मक इनद्वयरूपतया यथार्थमेव इति ; तान्प्रति इदमनुमानम्– रजतार्थिप्रवर्तकं शुक्तावि- दमिति ज्ञान रजतत्वप्रकारकम् , रजतार्थिप्रवर्तकज्ञानत्वात् रजते रजतज्ञानवत्- इति प्रथमा कक्ष्या ।। अथ द्वितीया- यदे प्रवर्तकरवं प्रवृत्तिजनकत्वम् , तदा ज्ञायमानेष्टपुरोव- र्तिभेदाग्रहः प्रवर्तक इति मत्पक्ष हेत्वसिद्धिः; यदि प्रवृत्ति- प्रयोजकत्वम् , तदा त्वन्मत रजतभ्रमजनकधर्मज्ञाने व्यभि चारः , कार्याभावव्याप्याभावप्रतियोगित्वरूपस्य प्रयोजक- त्वस्य कारणतावच्छेदक इव कारणकारणेऽपि सत्त्वात् ; अ गृहीतेऽभेदपुरोवर्तिज्ञानं प्रवर्तकमिति मत्पक्षे तु अनुमानम प्रयोजकम् , त्वन्मतेऽपि भ्रमकारणत्वनावश्यकात् तत एव