पृष्ठम्:वादनक्षत्रमाला.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ २४ पूर्वोत्तरमीमांसा त्रानुष्ठेयं शिरसि अङ्गरधारणमेव आचक्षीततदपि न दोषः, तस्मिन्पक्षे समाचरप्रन्थानुसरेणेव तस्य मुण्डकाध्य- यनाङ्गत्वस्यैव प्राप्तेः, तस्य विद्यान्नत्वाप्रसक्तेः इति । सन्ति हि एतादृशान्यपि सिद्धान्तानभिमतमर्थं कृत्वचिन्तारूपेण सिद्धान्ततया प्रदर्शयन्ति ; यथा तावत् जैमिनीयसूत्रम् ‘अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात्’ इति । इदं हि सूत्रम्-- ज्योतिष्टोमप्रकरणान्नातेन ‘दीक्षितो न ददाति न जुहोति’ इति वाक्येन क्रत्वर्थपुरु षार्थानां सर्वेषामपि होमानां प्रतिषेधः क्रियते, अथवा क्रत्व र्थेषु प्रत्यक्षशिष्टान्विहाय अतिदेशप्राप्तानां पुरुषार्थानां च होमानां प्रतिषेधः क्रियते-इति पूर्वपक्षनिराकरणार्थम् ; अने- न प्रतिषेधपक्षे, स्वस्वनिधिभिः क्रतुमध्ये कर्तव्यत्वेन, दक्षि- तप्रतिषेधात् अकर्तव्यत्वेन च प्राप्तानां होमानां विकल्पः प्रव्रज्यते ; तत्परिहाराय ‘दीक्षितो न जुहोति’ इति वाक्य स्य अग्निहोत्रादिवाक्यशेषत्वमभ्युपगम्य नमः पर्युदासे वृ- ( त्तिराश्रयणीया, तेन अदीक्षितो यावज्जीवमग्निहोत्रं जु होति" इत्यादिरर्थः संपद्यते इति । अत्र वस्तुतः प्रतिषेध एव युक्तः, न पर्युदासःविकल्पाप्रसक्तेः, न खलु पुरुषार्थहोमनिषेधे विकल्पः प्रसज्यते, होमः पुरुषर्थः