पृष्ठम्:वादनक्षत्रमाला.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । अथ प्रतिवादिनो विंशतितमी कक्ष्या विधानम् ; विधानं तु प्रकरणकल्प्यवाक्यान्तरकृत्यमिति उप पद्यते । एवमेव हि वार्तिककृता प्रकरणान्तराधिकरणे गवा मयनादिगतानि “ज्योति:' + आयुः' इत्यादीनि अहःक्लप्ति नि एकाहक्रतुरूपाणामेव सोमयागानां सत्रैकदेशतया [वधानाथ प्रत्याभज्ञापकान, न तु तद्वमकमान्तरपरााण इति स्वाभिमतसिद्धान्तं व्यवस्थापयता प्रत्यभिज्ञापनमात्रम ज्योतिर्गौरायुः' इत्यादिवचनकृत्यम्, सलैकदेशतया फले विधानं तु * यं कामं कामयते तमेतेनाप्तोति' इति पल्लव चनकृत्यम्-इति अवाक्यभेदः समर्थित: । उक्तं हि वार्तिक एकेन वचनेन पर्युपस्थाप्य अपरेण फले विधीयते ' इति । न चैवं मासान्निहोत्रवाक्येन प्रत्यभिज्ञापनम् , प्रकरणकल्पि तवाक्येन सत्राङ्गतया विधानमिति शङ्कथम्; मासश्रुत्यवैय थ्यय प्रत्यभिज्ञापकवाक्य एव मासमुद्दिश्य पक्षबाधकतर्कसत्त्वात उक्तव्याप्ति: सुदृढेति । अथ वादिन एकविंशतितमी कक्ष्या गावामयनिकाह:क्लप्तिवाक्यदष्टान्तमवलम्ब्य गृहमेधी