पृष्ठम्:वादनक्षत्रमाला.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्येन विधानमात्रं क्रियते, न प्रत्यभिज्ञानम् ; * दर्शपूर्णमा सवत्कुर्यात् '-इत्यातिदशवाक्यरूपेण चोदकेन विपरिवर्तमा नयोराज्यभागयो: वाक्येन प्रत्यभिज्ञापनस्य अकरणीयत्वात् इह तु न तथा प्रत्यभिज्ञापकमन्यदस्तीति वाच्यम ; यत: चो। दकान् आज्यभागप्राप्त्यनन्तरम् * आज्यभागो यजति' इति वाक्य न पूर्वोतरमीमांसा प्रवतत कल्पनाप्रसङ्गान् । न च इष्टापत्तिः, आज्य भागविधिरूप स्वार्थत्यागः, प्रयाजादिांनषेधरूपपरार्थपरिग्रहः, चोदकप्राप्त प्रयाजादिबाधश्च– इति प्राप्रपरिसंख्यायां दोषत्रयप्रसङ्गान् । किं तु प्रागव चोदककल्पनान् गृहमेधीयस्य इतिकर्तव्यता प्रतिबन्धद्वारा गृहमेधीयस्य प्रकृतिराहित्यरूपापूर्वतासिद्धय इदमाज्यभागव्यापारविधानं प्रवर्तते । अत: चादककृ भागौ यजति' इत्यत एव लभ्यम् । अत: तद्भावेन अवा क्यभेदो न मर्थयितुं शक्यः– इति विपक्षबाधकतकभा वात नोक्ता व्याप्तिरस्तीतेि ।।