पृष्ठम्:वादनक्षत्रमाला.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ पूर्वोत्तरमीमांसा नित्यसंयोगविरोधः- - अध्ययनं हि नित्यम्, तदङ्गस्य । उपन- यनस्य नित्यत्वात् , “अत ऊध्र्वे त्रयोऽप्येते यथाकालमसंस्कृ त:। सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हितः’ इति स्मर- णात् ‘योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवः नेव शूद्रत्वमाशु गच्छति सान्वयः ’ इति अध्ययनाभावे दोष- स्मरणाच्च ; अध्यापनविधिस्तु काम्य इत्यङ्गीक्रियते ; एवं च यत्र प्रामे जनपदे वा धनववादिहेतुभिः आचार्यत्वकामो न स्यात् , सन्वा कश्चित् उपनीय अध्यापयितुं प्रवृत्तः प्रत्रज नादिहेतुभि: निवृत्तrध्यापनसंबन्धः स्यात् , तदा तद्रामज नपदवासिनामपि अध्ययनस्य तेनाचर्येण उपनीतनाम् । एकदेशमध्यापितानाम् एकदेशान्तराध्ययनस्य च कथं नि. वृत्तिः स्यात्; अपि च अध्ययनं यावद्वेदसमप्ति अचर्या- धनन स्मृयुक्तशिशूषादिनियमैः तदुपासनापरेण च सता यथा तदुच्चारण स्वरवणदेब्रुशराहित्येन कतव्यमतेिलश साध्यम्; अस्मिन्कथमन्यपुरुषगाम्याचार्यत्वसिद्धयर्थमन्यः प्रवर्तेत, कथं च तस्मै दक्षिणां दद्यात् ; यद्युच्येत अध्यापये तेव स्वस्याचार्यत्वसिद्यर्थम् अध्ययनेन माणवकस्य अर्थज्ञा नादिफलं प्रदश्यै तं प्रवर्तयेदिति, तथा सति तस्य स्वाधि कार एव प्रवर्तकः स्यात्, न अध्यापनविधिः; न च ।