वानक्षत्रमा । ३०१ आधानसस्कारस्य माङ्गप्रधानानन्तरभावित्वंप संभारव ग्निनिधानरूपप्रधानानन्तरमेव अग्नौ स्वायतनप्राप्तिरूपाति- शयो जायत इति वाच्यम् , तदानीमेव कर्तरि अपूर्वजन नेनाविशेषात् ; यत्तु अग्निसंस्कारस्य व्यवहितफलस्य कर्तुग तत्वाभावेऽपि आधनसंस्कृतोंऽग्निः अव्यवहितं कर्तुगामि फ लमस्तीति शङ्कितम् , तन् सस्कारात् सस्कृतस्य केन विशेषेण कर्तुगामित्वमस्तीति शङ्कितम् इति न विद्मः; कतृगतत्व कर्तु- समवेतत्वं चेत् संस्कृतस्यापि असिद्धम् , कर्नार्थत्वं चेत् संकार- स्यापि अविशिष्टम् ; यत्तु दूषणमुक्तम्- एवमुपनयनस्यापि तत्संस्कृतो माणवकः फलं स्यात्-इत्यादि, तदपि उक्तरीत्यैव निरस्तम् , कर्तुगतस्वं कर्तुसमवेतत्वम् इत्यभ्युपगमे माणवकस्य फलत्वयोगात् , कर्नर्थवम् इत्यभ्युपगमे उपनयनस्य फलत्वा संभवे ऽपि उपनीतस्याव्यवहितफलत्वं संभवतीत्युक्त्ययोगात् ; यत्तु स्वयं कत्रोभप्रायसूत्रथनधरणं कृतम् - असाधारण क्रियाफलस्य कर्तुगतत्वं कथंभिप्रायसूत्रार्थः इति ; तदपि तुच्छम्, यदि तस्या एव क्रियाया यत्फलं न क्रियान्तरापे- क्षम् , तदसाधारणमिति विवक्षितम् , तदा ‘नवसप्तदशेना- तिरात्रेण प्रजाकामो यजेत’ इति आत्मनेपदं न स्यात् , प्र- जोत्पादनार्थं लौकिकक्रियाया अपि अपेक्षणात् ; यदि यवे.
पृष्ठम्:वादनक्षत्रमाला.djvu/३११
दिखावट