पृष्ठम्:वादनक्षत्रमाला.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० पूर्वोत्तरमीमांसा अध्ययनाङ्गस्य सतः उपनयनस्य अध्यापनेऽपि अङ्गत्व मापादयत् अनन्यथासिद्धमिह नास्त प्रमाणम् ; तथा हि-

  • उपनीय तु यः शिष्यम्’ इते स्मृतिः न अध्यापनमात्रे-

णाचाय भवति, किंतु उपनयनेनापि इत्येतावन्मात्रपरा - यथा ‘ न विद्यया केवलया तपसा वापि पात्रता। यत्र वृत्तमिमे चोभे तद्धि पत्र प्रचक्षते’ इति स्मृतिः कंवल विद्यया तप- सा वृत्तन व पख न भवति, कितु त्रभरित्यतत्परम् , प्र यपठानुरोधात् ; ‘निषेकादीनि कर्माणि यः करोति यथावि धि ध । संभावयति चनेन स विप्रो गुरुरिष्यते' इत्ययम् । ‘ तमचर्यं प्रचक्षते' इत्येतदनन्तरश्लोको हि निषेकाद्यध्या पनान्तकर्मकरणेन पुत्राणां वृत्तकल्पनेन च गुरुर्भवति, न तदेकदेशेन इत्येतदथा दृश्यते ; स गुरुचेः क्रि याः कृत्वा वेदमस्मै प्रयच्छति’ इति तदर्थसंग्राहक- स्मृत्यन्तर च त्वप्रत्ययोऽपि दृश्यते ; न चैतावता निषेकादिचौलान्तकर्मकरणमपि तत्राध्यापनाङ्गमिष्यते; त स्मात् नेह कर्तृकारकैक्येऽभिनिवेष्टव्यम् ; तदपि चात्र उपपादयितुं शक्यम् अध्यापनोपकारकाध्ययनान्वयमात्रेण, दृश्यते हि आग्नेययागेन सह समुच्चित्य फलसाधनतया तदुपकारकस्य अग्नीषोमीययागस्याङ्गानाम् आग्नेययाग