२८४ पूर्वोत्तरमीमांसा नोपपद्यते ; यद्यपि प्रयोगैक्यं तयोः समप्राधान्ये वैपरीत्ये- नाङ्गाङ्गिभावे च संभवति, तथापि उपनयनमुपनेयासत्ति मसंपाद्य तरकर्तृकेणाध्ययनेन अध्यापनं निर्वर्तयितुं क्षममिति दृष्टद्वरसत्त्वात् उपनयनस्य अध्यापनाद्भत्व एव क्त्वश्रुतिः पर्यवयतीति ; तथा ‘ तमध्यापयीत’ इति तच्छब्दपरामृष्ट पनतस्य अध्यापनसबन्धबधनत् तच्छब्दश्रुतेरापे उपन यनस्य अध्यापनाद्भवे प्रमाणम्, ‘तते पयसि दध्यानयति स वैश्वदेव्यामेक्षा वाजिभ्यो वाजिनम्’ इत्यत्र ‘स’ इति तच्छब्दन दध्यानयनसस्कृतपयःपरामांशेन दधिसंसर्ग
प्राप्तघनीभावपयोवाच्यामिक्षपदसामानाधिकरण्यलब्धस्त्री- लिलेन दध्यानयनसंस्कृतस्य पयसो वैश्वदेवयगसंबन्धबो. धनात् पय:संस्कारस्य दध्यानयनस्यापि वैश्वदेवयागान्नस्व- सिद्धिरभ्युपगम्यते ; तथा ‘उपनयीत ’ इति आरमनेपद श्रुतिरपि तत्र प्रमाणम् , स हि अध्यापनफलस्य आचर्य- त्वस्य उपनयनन्वयं वधयन्ती पूवक्तरीत्या उपनयनस्य अध्यापनङ्गस्वे पर्यवस्यति ; तस्मात् अध्यापनविधिना स्वा- ङ्गमुपनयनं प्रयुज्ञानेन उपनीतव्यापाराध्ययनस्यापि । प्रयु क्तिरुपपद्यत इति त्वद्धेतुर्विशेषणासिद्धः, मद्धेतुश्च नासिद्ध इति ।।