वादनक्षत्रमाला । चाराक्षेपासंभवात् ; न च सिद्धान्ते श्रवणविधिरस्ति, येन ततो वेदान्तविचारकर्तव्यता लभ्येत ; * तद्विज्ञानार्थ स गुरु मेवाभिगच्छेत्' इति गुरूपसदनविधिस्तु स्वानुष्ठयोपास नापेक्षितकतिपयवेदान्तवाक्यार्थोपदेष्टगुरूपमदनविषयतयापि चरितार्थम् ; तस्मात् विचारनियमसिद्धयर्थम अध्ययनविधेः अर्थज्ञानफलकत्वमेवाङ्गीकरणीयामिति अथ चतुदेशी कक्ष्या-- २७३ चार: सिध्यत्येव, एकामेवोपासनां चिकीर्षमाणेनापि पुरुषेण
- W. 18
विशिष्य इदमेव ब्रह्मति निर्धार्य यावज्जीवम् अहरहरावर्त नीया ब्रह्माोपासना आरब्धव्या ; तन्निर्धारणं तु यद्यपि अय मितिवत् इदं ब्रह्नोति श्रृङ्गमाहिकया आप्ततमोपदेशेनापि क थंचित् लब्धुं शक्यम्, तथापि तलक्षणमुखेनैव संपाद नीयम् ; ब्रह्मसद्भावमात्रं संप्रतिपद्य तत् किं ब्रह्म इति इदंतया ज्ञानार्थम् * अधीहि भगवो ब्रह्म' इति उपसन्नाय भृगवे * यतो वा' इत्यादिलक्षणमुखेन तदुपदेशसामथ्र्यत:
- तद्विजिज्ञासस्व तद्रह्म' इति वाक्यशेषतश्च लक्षणमुखेनैव
ब्रह्म निर्धार्य उपासनीयमिति नियमोन्नयनात्, न हि श्रृङ्ग