पृष्ठम्:वादनक्षत्रमाला.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । अथ षष्ठी कक्ष्या यदि अथप्रतत्यु६२यकव्यापारत्वन तात्पर्यप्रयोजकता, तर्हि अध्ययनादन्य एव कृत्स्रस्वाध्यायार्थप्रतीत्युद्देशेन यनानन्तरं कर्तव्यो विचार:; न हि विचारमन्तरेण कस्यापि क्रतूपासनोपयुक्त: वेदार्थनिर्णयः संभवति ; अतस्तस्यैव वेदा नामर्थपरत्वे प्रयोजकत्वोपपत्तौ नाध्ययनस्य तत्प्रयोजकत्व निर्वाहार्थ तव्यप्रत्ययस्वारस्यादिप्राममश्रावाप्तिमतिलङ्घ्य अर्थज्ञानस्यापि तत्फलत्वं कल्पनीयमिति त्वदनुमानमप्रयो जकमेव, मदनुमानं च न प्रतिकूलतर्कपराहतमिति । अध्ययनस्यार्थज्ञानफलकत्वाभावे कृत्स्न्नस्वाध्यायार्थप्रती तेरुद्देशेन विचार एव न हि तदीयफलोपकार्यङ्गतया तद्विध्याक्षिप्त: स प्राप्नुयात् ; न हि विध्यन्तरमूला रागमूला वा तत्प्राप्तिः संभावयितुं शक्यते : एवं च अध्ययनानन्तरं कृत्स्रवेदार्थविचारकर्तव्यतामिच्छता - २६७ - ( भ्युपगन्तव्यतया साक्षादर्थप्रतीत्युद्देश्यकव्यापारोऽध्ययनमे व, विचारस्तु तदङ्गमिति वेदतात्पर्यप्रयोजकव्यापारत्वमपि अध्ययनस्यैव पर्यवस्यति, अतो मदनुमानं नाप्रयोजकम् ।