पृष्ठम्:वादनक्षत्रमाला.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख्यातयोर्विरोधात् आख्यातपरतन्त्रस्य नाम्रो मुख्यार्थत्व अथ वादिन: त्रयोदशी कक्ष्या १७ किंचित्फलसाधने स्वयं प्रधानभूतस्यापि फलान्तरसाधने अन्याङ्गतायां न तावदर्थविरोधः, फलभेदेनोभयोपपत्तेरमा एक म्यैव वाक्यस्य अङ्गत्वप्रधानत्वोभयबोधकत्वे हि विरोधः स्यात् । इह च नैयामिकाग्निहोत्रप्रकरणपठितवाक्येन प्राधा न्यम् ; दात् न शाब्दविरोधोऽपि । तस्मात् नामाख्यातयोर्विरोधा भावात् नाम्रो मुख्यार्थभङ्गो दोष एवेति न मद्धेतुरप्रयो जकः, त्वद्धेतुश्च प्रतिकूलतर्कपराहत इति । यद्वैदिकं कर्म प्रधानम , न तदन्यस्य कर्मणोऽङ्गम इत्यव्यभिचरितसहचारदर्शनेन नियमोऽवधृत: । न चेत्थम वधृतस्य नियमस्य बाधनं युक्तम् । अत: सत्राङ्गतया विधे यहोमो नैयमिकाग्निहोत्राद्भिन्न इति नामाख्यातयोर्विरोधात् नाम्नो मुख्यार्थभङ्गो न दोष इति त्वद्धेतुरप्रयोजक:, मद्धे