पृष्ठम्:वादनक्षत्रमाला.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिग्रहधर्मश्चिन्तित:, द्वितीयाह्निकेन चातुराश्रम्यधर्म: किया नपि चिन्तित: संग्रहत:; तस्मात् युक्तं धर्मविचारप्रतिज्ञान स्य न ब्रह्मविचारसाधारण्यमिति सिद्धम् । अत्रायं मत द्वयसक्षप तदुपासनक्रियाया नि:संदेहं च धर्मत्वम् ।। १ ।। स्वर्गादिवद्विचार्य: क्रियाफलत्वेन वा ब्रह्मा ।। २ ।। २ ५७ इत्यैकशास्त्र्यमुभयोममांसाशास्रयोर्यदास्थिषत । तत्राशामपनेतुं तेषां प्रतिबोधनं क्रियते ।। ३ ।। भवदभिमतरूपं ब्रह्म तत्तद्वचो हि स्पृशति यदि विचार्य पूर्वतन्त्रप्रतिज्ञा । किमिति न भवितव्यं तद्विचारैस्तदास्तां ननु परिहरणीयं सर्वधा तद्विरुद्धम ।। ४ ।। लक्षसूत्रगतचोदनापदं प्रेरकं विधिपदं हि नोज्झति । ।। ५ ।। अर्थवादवचसामनर्थता पर्यहारि विधिशेषभावत: । तत्किमागमवचांसि न स्पृशेचोदनं तव समं हि तेष्वपि ।। न स्पृशेद्यदि ततो हि जैमिनिः स स्वयंफलपराणि सूत्रयेत् ।

  • W. 17