पृष्ठम्:वादनक्षत्रमाला.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यणस्तु क्षयिष्णुसातिशयाभ्युदयफलं यागादिरूपं धर्ममेव स कलवेदार्थ मन्वानः जैमिनि: उपक्रमाद्यवगमितमहातात्पर्य सकलवेदान्तप्रमाणकं ब्रह्म नित्यनिरतिशयपुरुषार्थरूपमुक्ति फलानि तदुपासनानि कर्मणां तत्साधनसहकारिभावं च। नाज्ञासीत्– इत्येतदालोच्य जैमिनीयपर्यालोचनेन लोको मा मोमुहृत् इति लोकानुग्रहाय * अथातो ब्रह्मजिज्ञासा । इत्यादिशास्त्रं प्रणिनाय- इति अस्येव जैमिनीयबादराय पीययो: शाखयो: महान्विरोध:; अतः तयोरैकशास्त्र्यासं भवात् बाधितं त्वदनुमानम् , मदनुमानं तु नाप्रयोजकम्, वादनक्षत्रमाला ।

तन्त्रे तदन्यस्य विचार्यत्वायोगात्; न च कर्मान्यत्वेऽपि यूपा हवनीयगोदोहनादीनां स्वरूपप्रमाणादिभिविचारो दृष्ट इति तद्वत् ब्रह्मणोऽपि देवतात्वेन यागाद्यन्वयसद्भावात् हेत्वसिद्धि देवताया: यज्यमानद्रव्योद्देश्यत्वेऽपि तद्वाचकशब्दस्यैव उञ्चा नविषयत्वेन तख्या: तद्विषयत्वाभावात्; एतेन जैमिनीये विचार्यपरस्य धर्मशब्दस्य कर्मपरत्वेन सा २५३ - हात् ब्रह्मास्पाशत्वऽाप उपासनरूपकमपरत्वस्याप्रत्याख्यय तया तद्विषयफलरूपब्रह्मस्पर्शित्वमवर्जनीयमिति प्रतिज्ञा साधारण्यात् यथा कथंचित् विरोधमवधूय ऐकशास्त्र्यं