पृष्ठम्:वादनक्षत्रमाला.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । २५१ रोधसमाधानमपि निरस्तम्, जैमिनिना देवताप्राधान्ये स्पष्ट निराकृते * चोदना पुनरारम्भ: ' इत्यधिकरणे व्याख्यातृभिः व्यवहृतमपूर्वमेव द्वारं जैमिनेरपि अभिमतम् इति अवधा रणात् ; ब्रह्मतत्प्रास्यर्थसंन्यासापलापविरोधसमाधानमपि अ युक्तम्, ब्रह्मविषयवाक्यानां कर्तृसंस्काररूपकर्माङ्गोपासना विषयजीवात्मस्वरूपसमर्पकत्वमभ्युपगच्छत: जैमिने: मते ब्रह्मणि प्रमाणाभावेनैव तयापलापसिद्धेरनिवार्यत्वात् ; अत एव अर्थवादाधिकरणे वार्तिककारै: * वायुवै क्षेपिष्ठा इयाद्यर्थवादानां विधिशेषत्वसमर्थनानन्तरमुक्तम-एतेन निषदामपि नैराकाङ्कयं व्याख्यातमिति; यत्तु वार्तिककारैः व्याकरणाधिकरणे परमात्मोपासनाविधितत्फलवचनान्युदा तन् मर्वधा ब्रह्मापलापभीरूणां तेषामेव मनीषिकया प्रवृ त्तम, न तु सूत्रकाराभिमततया, जैमिनीयवैयासिकसूत्राणां फुटविरोधस्य दर्शितत्वात्; यत्तु प्रवृत्तिनिमित्तगौरवपरिहा रार्थ धर्मशब्दस्य ब्रह्मसाधारण्यावश्यंभावात् भारतवचनम्य त्यर्थत्वं न कल्प्यम्, किंतु कृष्णम्तुतिप्रकरणादेव सिद्धम्;