पृष्ठम्:वादनक्षत्रमाला.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्वोत्तरमीमांसा द्धसाधनवारणाय स्वरूपप्रमाणसाधनफलैः विशेषणम्- इति प्रथमा कक्ष्या । न सह- ब्रह्मणो जैमिनीयधर्मविचारप्रतिज्ञाविषयतायाम् अग्रे त इति च तमाप चिकीर्षतो महर्षेः विन्नः कश्चित् उत्प्रेक्षितुं शक्यते ; नापि विस्मरणम् , यो हि द्वादशलक्षण्यां स्वरूपप्रमाणसाधनफलैः सह कर्मजातं निर्णीय तत्रासूत्रितान् कांश्चित्तदुपयुक्तान् न्यायानालक्ष्य तत्संग्रहार्थ द्वादशलक्षणीशेषं संकर्षणकाण्ड मकार्षीत्, तस्य महर्षेः ब्रह्मविचारे वित्रं विस्मरणं वा कथमुत्प्रेक्षामहे; न च कर्मविचारोपयुक्तन्यायैरेव ब्रह्मणोऽपि स्वरूपप्रमाणसाधनफलनिर्णय: सिध्यतीत्यभिप्रेत्य पृथक्त द्विचारो न कृत इति शक्यं वक्तुम्, कर्मपरवाक्यार्थनि र्णायकन्यायेभ्यो विलक्षणानामेव ब्रह्मपरवाक्यार्थनिर्णायक न्यायानां चतुर्लक्षण्यां प्रथनदर्शनात् ; न च द्वादश लक्षणीचतुर्लक्षण्योः ऐकशास्याभ्युपगमेन ब्रह्मविचारप्र तिज्ञानिर्वाहः कल्पयितुं शक्यः, भिन्नवक्तृकयोः धर्मब्रह्म र्णायकन्यायग्रथनप्रवृत्तयोः तयोरैकशास्त्र्यकल्पने प्रमाणा