पृष्ठम्:वादनक्षत्रमाला.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ पूर्वोत्तरमीमांसा थऽभिहितंत्रजनक्रियाकर्तुशक्त्याश्रयः– एवमनभिहितभोः। जनक्रियाकर्तुशक्याश्रयोऽपि, त्वप्रत्ययस्य शब्दान्तराभि- हितकर्तृशक्तिद्वयाभेदमात्रार्थकत्वेन कर्तुशक्त्यनभिधायकत्व त् । अनभिहितसूत्रेण च अनभिहितकारकशक्त्याश्रये यथा- यथं विभक्तयो विधीयन्ते ; न त्वभिहिताश्रये प्रति षिध्यन्ते ; पर्युदासपक्षाश्रयणात् । अत एव अनभहतसूत्रे द्वयो: क्रिययो: कारकेऽन्यतरेणाभिहिते विभक्त्यभावप्रसङ्ग इति वार्तिकेन प्रासाद आते- इत्यत्र प्रसीदन्त्यस्मिन्निति । अधिकरणार्थं निष्पनेन सदेर्घञ्प्रत्ययेन प्रासादगताधिकर णकारकशक्तेरभिधानात् सप्तमी न स्यात् इति प्रतिषे धपक्षाश्रयणेन शङ्कामुद्भाव्य, ‘न वान्यतरेणानभिधानात् । इति वार्तिकेन असिक्रियाधिकरणशक्तेः आसेरुपरितना- ख्यातप्रत्ययेनानभिधानात् नायं दोषः प्रसज्यते इति पर्द सपक्षाश्रयणन सप्तम्युपपादिता । तस्माद्याकरणमयोद या प्रसज्यमानोऽयं दोषः तन्मर्याद्यैव यन्नानरमास्थाय अहं भुक्त्वा इत्यादौ कथं चित् प्रथमासमर्थनेन समाधे- य इति, इह तृतीयाया: कर्नर्थत्वकारकविभक्तित्रयोरनुपप- त्यभावात् न मद्धेतोः प्रागुक्तदोषः, त्वद्धेतोरेव स दोष इति ।