पृष्ठम्:वादनक्षत्रमाला.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । २१५ सिद्धः । तस्मादुदाहृता ‘जीवेन' इति तृतीया कर्पर्धा न भवति, तदभिधायिपदान्तरसमभिव्याहृतत्वात्; पुत्रेण सह अहं भोक्ष्ये- इत्यत्र तृतीयावत् इति ॥ अथ तृयया व्याकरणक्रियाकर्तुशक्ते: आख्यातेनाभिहितत्वेऽपि प्रवेश- क्रिया कर्तुशक्तेः कनष्यनभहितत्वेन तदर्थत्वं तृतीयायः संभवतीति मदनुमानस्य न बाधासिद्धिदोषः; त्वदनुमान स्यैव तु बाधासिद्धिदोषः इति । अथ चतुर्थी - तथा सति अहं भुक्त्वा व्रजामि- इत्यादिप्रयोगविष येऽपि मया भुक्त्वा- इत्यादिप्रयोगः स्यात् ; भोजनादि क्रियाकर्तुः प्रत्ययान्तरेणानभिधानात् ; तदिहपि कर्तुशक्त्य- धिष्ठाने प्रथमयैव भाव्यमिति तृतीयाया: कर्नर्थत्वकारकवि- भक्तित्वयोरसंभवात् त्वद्धेतोरेव प्रागुक्तदोषः न मद्धेतोरिति । अथ पञ्चमी- व्याकरणमयद्य प्रसज्यमानऽय दोषः तवाप तुल्यः, अहं भुक्त्वा व्रजामि- इति प्रयोगे हि यथा अहम