पृष्ठम्:वादनक्षत्रमाला.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । २१७ अथ षट् वैयाकरणमर्यादया नैष दोषः प्रसज्यते । एवं हि तन्म यदा -- अहं भुक्त्वा व्रजामि- इत्यत्र अहमथेस्य भोजन- व्रजनक्रियाभ्यामुभाभ्यामपि न शाब्द अन्वयः ; किंतु व्रज- नक्रिययैव, प्राधान्यात्; अर्थस्तु भोजनक्रियया अन्वयः । अतः शब्दव्यापारापेक्षायामभिधानमेव, न त्वनभिधानमपि- इति न अहमथै तृतीया प्रसज्यते । अत एव पक्त्वा भुज्यते । ओदनः- इत्यत्र पाककर्मत्वनभिधानमाश्रित्य ओदनमिति २ = द्वितीया न प्रवर्तत ; पकं कमन्वयस्य आथत्वात् । प्रासाद आस्ते- इत्यत्र तु प्रासादस्य प्रसदनासनक्रियाभ्यां शब्द एवान्वयः ; पदार्थदशायां घबन्तप्रातिपदिकेन प्रसदनेना- धिकरणतया अन्वितस्यैव हेि प्रसादद्रव्यस्य वाक्यभेदशा याम् आसनक्रियाधिकरणत्वेनापि अन्वयात् । अत स्तत्र श ब्दव्यापारापेक्षयैव अनभिहितासनक्रियाधिकरणकारकश- क्त्याश्रयत्वमपि प्रासादस्यास्तीति तत्र सप्तम्युपपद्यते । एव• मसङ्कीर्णा प्रसिद्ध वैयाकरणमर्यादेति तदाश्रयणेनैव स वपपादने संभवति लौकिकप्रयोगे कर्तरि प्रथमामुपपादयितुं न यन्नान्तरमास्थेयमिति, इह तृतीयायाः कर्नर्थत्वकरणार्थ- त्वयोरसंभवात् त्वद्धेतोरेव पूर्वोक्तदोषःन मद्धेतोरिति । ।