पृष्ठम्:वादनक्षत्रमाला.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ १० पूर्वोत्तरमीमांसा पचारिकाभदाभिप्रायेण तात्विकाभेदाभिप्रायेण वा उपपन्न न सर्वप्रवृत्तिनिमित्ताश्रयत्वसमर्पणक्षमम् । * अनेन जीवेनात्म. ना' इति श्रुतिवचनं प्रपञ्चगतनामरूपव्याकरणार्थत्वेनाप्यु द्यमानं सर्वेषां नामरूपाणां परमेश्वरपर्यन्तव्याकरणार्थत्वम पेक्षते । “ तन्नामरूपाभ्यां व्याक्रियत' इति वचनं परब्रह्मा साधारणनामरूपव्याकरणार्थत्वेनाप्युपपद्यमानं न सर्वनाम रूपव्याकरणस्य परब्रह्मपर्यन्तत्वमर्थ स्पृशति । “ सवणि रूपाणि ' इति मन्त्रे सर्वनामरूपग्रहणे सत्यपि स मन्त्रः अत मद्धेतुश्च नासिद्ध इति ।

  • नामरूपे व्याकरवाणि ' ' तन्नामरूपुभ्यां व्याक्रियत '

सर्वणि रूपाणि ' इति श्रुतित्रयस्यापि नामरूपव्याक रणश्रुतित्वाविशेषात् संभवदैकाथ्यै न परित्यक्तुं युक्तम् । अत: श्रुतित्रयार्थोपसंहारे तेजोऽबन्नात्मकसकलप्रपञ्चगतना मरूपव्याकरणस्यापि परब्रह्मपर्यन्तत्वं लभ्यते । अत एव

  • सर्वाणि रूपाणि' इति मन्त्रानन्तरम् * धाता पुरस्ताद्यमु

दाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः' इति परमेश्वरेण स्व