पृष्ठम्:वादनक्षत्रमाला.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्तर्यामिविषयसकलशब्दवाच्यत्व समर्थनवादः । नन्वेवमपि तर प्रस्तूयत सर्वशब्दवाच्यत्वं तस्य न सिध्यतीति शङ्कानिरासाय कथा तत्र परमेश्वरः शरीरादिशब्दवाच्यः, शरीरशब्दप्रवृत्ति निमित्ताधिकरणत्वात्, यत् शरीरशब्दप्रवृत्तिनिमित्ताधिकर णम्, तत् शरीरशब्दवाच्यम्- यथा शरीरम्- इति परमेश्वरस्य शरीरादिशब्दवाच्यत्वासिद्धे प्रथमा कक्षया ।। अथ द्वितीया असिद्धोऽयं हेतुः, शरीरशब्दप्रवृत्तिनिमित्तं हि शरीर त्वम्; तदधिकरणत्वं जीवस्यैव तावत् नास्ति, गौरोऽहम्। ब्राह्मणाऽहम्--इत्याद्यनुभववत् शरारमहम् , कलबरमहम् । हस्तोऽहम्, पादोऽहम्- इत्याद्यनुभवस्य कदाप्यदर्शनात्; कुतः तद्वारा अन्तर्यामिपर्यन्तेन अहमनुभवेन प्रापणीयम् अन्तयामिणः शरीरत्वाधिकरणत्वं सिध्येत् । न च अहमनु