पृष्ठम्:वादनक्षत्रमाला.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । सिद्धः, त्वद्धेतुरेवासिद्ध इति । अत: मदनुमाने पृथिव्यादी नां शरीरत्वसिद्धौ तदभिमानिदेवानां पृथिव्यहम् उदकमहम तेजोऽहम् इत्याद्यनुसंधानैः तेषां पृथिवीत्वाद्याश्रयत्वसिद्धौ तेषामपि अन्तर्यामिब्राह्मणोक्तरीत्या अन्तर्यामिशरीरत्वात् ब्रह्मविदां तेषां पृथिव्यहम् इत्याद्यनुसंधानम् अन्तर्यामिपर्य न्तं भवेदिति ततोऽन्तयमिणः परमेश्वरस्य पृथिवीत्वाद्याश्रय त्वलाभे सति तस्य तत्प्रवृत्तिनिमित्तकपृथिव्यादिशब्दवाच्य त्वमपि सिध्यतीति सर्व समञ्जसम् । २ ८०७ इत्यन्तर्यामिविषयपृथिव्यादिशब्दवाच्यत्वसम थैनवादः ॥ १५ ॥