पृष्ठम्:वादनक्षत्रमाला.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमी वादनक्षत्रमाला । न्नियम्यत्वसद्भावेन गौणमुपपादनीयम् । अत: पृथिव्यादिषु शरीरलक्षणाभावात् त्वद्धेतुरसिद्धो मद्धेतुर्नासिद्ध इति । २ ० १ वत: शिवयोगिनोऽपि राजवदाज्ञावचनेन भृत्यं प्रेरयतो लीलया नाविकवत् नावमधिरुह्य क्षेपण्या तां क्षिपती दारुचर्मादियन्त्राच्छादनेन व्याघ्रादिवत्संचरतश्च भृत्यशरी तस्या एव तत्प्रयोजकतायामाज्ञावचनादिवैयथ्यत् । अव इयं च लक्षणे नियम्यव्याप्त: नियमनप्रयोजकत्वं विवक्षणी यम्, अन्यथा सर्वाङ्गीणसुखदुःखानुभवानुरोधात् चिच्छक्ति विकासेन स्वशरीरमन्तर्बहिश्च व्याप्य स्थितस्य स्वकुक्षिस्थ कृम्यादिकमौषधसेवादिना यमयतश्च पुरुषस्य कुक्षिस्थकृ म्यादिशरीरमपि शरीरं भवेत् । यदि तु शिवयोगी मन्त्रमहिन्ना योषिदाद्याकर्षणमिव चिच्छक्तिव्याप्तिमहिम्रा विनैवाज्ञाव चनम् अन्तर्यामिवत् भृत्यादीन् प्रेरयेत्, नावमनधिरुयैव जले तां संचारयेत् , व्याघ्राकृतिदारुयन्त्रादिकमननुप्रविष्ट एव संचारयेत्, तदा किमतिव्याप्तिर्न भवति– इत्य तावच्छङ्कनीयम् ; तत्रेदमुत्तरम्- शिवयोगिनः तथा तथा