पृष्ठम्:वादनक्षत्रमाला.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा देन व्याप्य अधितिष्ठता नियम्यं तत्तस्य यस्यात्मना शरीरम् इति लक्षणं पर्यवस्यति । इदं च लक्षणं यावद्भव्यभाव्ययावद्भव्यभाविनियमनसाधारण्येन योग्यतामा त्ररूपं विवक्षितम् । अतः सुषुप्तमूर्छितादिशरीरेषु प्राणेन्द्रिया दिषु तत्तदभिमानिदेवताशरीरेषु च नाव्याप्तिः । नापि भृत्यादि शरीरेषु स्वाभ्यादिशरीरत्वापत्तिरूपातिव्याप्तिः, यत: स्वामी २ ० ० सर्ववयवावच्छेदेन व्याप्य अधि. तिष्ठति । दारुचर्मादिव्याघ्राकारयन्त्रानुप्रविष्टकृत्रिमव्या घ्रादिभिरपि तथा । तस्मात् पृथिव्युदकादीनां शरीरलक्ष णयोगित्वम् । अतो मद्धेतुर्नासिद्धः, त्वद्धेतुरेवासिद्ध इति । अथ षष्ठी भृत्यशरीरनौदारुयन्त्रादिषु सर्वावयवव्याप्या नियामकत्वम स्तीति तेषां तत्तच्छरीरत्वप्रसङ्गेन रक्ष:पिशाचगन्धर्वद्या विष्टशरीराणां रक्षःपिशाचादिभोगोपयुक्तानां रक्षःपिशा चादिशरीरत्वप्रसङ्गेनातिव्याप्त: अनिवार्यत्वात् । तस्माद . गत्या मदुक्तमेव शरीरलक्षणमास्थेयम् । तन्निर्वाहाय च श्रुतिषु पृथिव्यादीनां परमेश्वरशरीरत्वप्रतिपादनं शरीरवः