पृष्ठम्:वादनक्षत्रमाला.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वदुक्तसहकारसमवधानाभावाद्व नियमनाभावः- इति चैत्रशरीरस्यापि मैत्रं प्रति शरीरत्वप्रसङ्गेन अतिव्याप्यापत्तेः । तस्मात्करचरणाद्याश्रयत्वमेव शरीरलक्षणमास्थेयम । करच रणादिकं च अवयवसंस्थानरूपं न विवक्षितम् । किंतु इन्द्रियरूपम् । इन्द्रियाणां च एकादशानामपि आमोक्षम् अनुवृत्तिमत्वेन पशुवृक्षसरीसृपादिरूपेषु जङ्गमस्थावरात्म केषु सर्वेष्वपि शरीरत्वेन संप्रतिपन्नेषु सद्भावोऽस्येव । अत: पृथिव्युदकादिषु तत्तदभिमानिदेवताधिष्ठितसचारिश १९९ ३ात चतुथा | करचरणादीन्द्रियाश्रयत्वं न शरीरलक्षणम् , अन्तर्यामि ब्राह्मणे * यस्य पृथिवी शरीरम...यस्याप: शरीरम्.... यस्य तजः शरीरम्' इत्यादिवाक्यैः परमेश्वरशरीरत्वेन प्रतिपा देतेषु पृथिव्यादिष्वभावात् । तस्मात् मदुक्तमेव लक्षणं वाह्यम् । न च उक्तदोषप्रसङ्गः, सर्वात्मशब्देन मध्यमपद ोपिसमासवता सर्वानुप्रविष्टस्य आत्मनो विवक्षितत्वात् अवयवकात्स्न्यपरः । तथा च यद्दव्यं स्वकीयसवावयवावच्छे