१९८ पूर्वोत्तरमीमांसा व्यं सवांत्मना नियम्यं तत् तस्य शरीरम् इति शरीरलक्ष सर्वात्मना न नियम्यमिति न मद्धेतुरसिद्धः, त्वद्धेतुरेवासि. द्धः– इति तृतीया । त्वदुक्तमाप शरारलक्षणमयुक्तम् , तल सवात्मना इत्य नेन यस्यैव नियम्यं नान्यस्य इत्यन्ययोगव्यवच्छेदाविवक्षा याम् असंभवापते: ; सर्वेषां शरीराणां तत्तदभिमानिनं देव मनुष्यादिकं प्रतीव सर्वेनियन्तारं परमेश्वरं प्रत्यपि निय म्यत्वात् । यस्य नियम्यमेव न कदाचिदनियम्यम् इत्ययोग व्यवच्छेदविवक्षायां सुषुप्तिमूर्छदिशरीराणां तत्तदभिमानिनं प्रत्यनियम्यत्वेन कल्पादौ परमेश्वरेण सृष्टानां कल्पान्तपर्य न्तस्थायिनां प्राणेन्द्रियादीनां प्रतिमन्वन्तरभिन्नान् तत्तदभि मानिदेवान् प्रति कालान्तरेषु अनियम्यत्वेन च तेष्वव्याप्त्या पत्तेः । न च वाच्यम्-नियम्यत्वं योग्यतामात्रेण विवक्षितम् सुषुप्तमूर्छितादिशरीरेषु योग्यता स्पष्टैव, प्राणेन्द्रियादिष्वपि दिनियमनसहकारेिसमवधानाभावात् नियम्यत्वाभाव इति तथा सति चैत्रमैत्रादिशरीराणां परस्परनियमनयोग्यतास्ति
पृष्ठम्:वादनक्षत्रमाला.djvu/२०८
दिखावट